________________ ॥श्रीः॥ नैषधीयचरितं महाकाव्यम् चन्द्रकलाऽऽख्यया व्याख्यया हिन्धनुवादेन च विभूषितम् चतुर्थः सर्गः योगादिनाऽप्यसुलभो दृढयत्नभाजा मास्ते तथाऽपि विदितो निजभक्तिवश्यः / धर्माऽवनिप्रणतरक्षणसक्षणो यो दूरीकरोतु दुरितं सततं स . ईशः / / अथ नलस्य गुणं गुणमात्मभूः सुरभि तस्य यशःकुसुमं धनुः। श्रुतिपयोपगतं सुमनस्तया तमिषुमाशु विधाय जिगाय ताम् // 1 // अन्वयः-अथ आत्मभूः नलस्य गुणं गुणं, सुरभि तस्य यशःकुसुमं धनुः, सुमनस्तया श्रुतिपथोपगतं तम् इषू विधाय ताम् आशु जिगाय। व्याख्या-अथ राज्ञः स्वयंवराऽर्थमुपोद्घातत्वेन भैम्या मदनाऽवस्थां वर्णयितुमारभते-अथेति / अथ =भम्या नलसन्देशश्रवणाऽनन्तरम्, आत्मभूः= कामः, नलस्य नैषधस्य, गुणं शौर्यसौन्दर्यादिकं धर्म, गुणं मौर्वी, विधाय= कृत्वा, सुरभि सुगन्धि मनोहरं च, तस्य=नलस्य, यशःकुसुमं= कीर्तिपुष्पं, धनुः - कार्मुकं, विधाय, सुमनस्तया=सुमनस्कत्वेन, पुष्पत्वेन च, श्रुतिपथो. पगतं वारं वारं भैम्या श्रुतमित्यर्थः, कर्णपर्यन्तमाकृष्टं च, तं=नलम् एव, इषूबाणं, विधाय, तां=भैमीम्, आशुशीघ्र, जिगाय=जितवान्, भैमी मलैकासक्तचित्तां चकारेति भावः / ___ अनुवाद-दमयन्तीसे नलका सन्देश सुननेके बाद कामदेवने नलके शौर्य बोर सौन्दर्य आदि गुणको प्रत्यञ्चा, उनके खुशबूदार और मनोहर कीतिरूप