________________ तृतीयः सर्गः 113 श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / ..तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा काव्ये चारुणि नैषधीयचरिते स! निसर्गोज्ज्वलः // 136 // अन्वयः-कविराजराजिमुकुटाऽलङ्कारहीरः श्रीहीरः मामल्लदेवी च जितेन्द्रियचयं यं श्रीहर्ष सुतं सुषुवे / तस्य प्रबन्धे चारुणि नैषधीयचरिते महाकाव्ये अयं तार्तीयीकतया मितः निसर्गोज्ज्वल: सर्गः अगमत् / / 136 / / / / ___ व्याख्या व्याख्यातपूर्वः श्लोकः संक्षेपेण पुनर्व्याख्यायते / कविराजराजिमुकुटालङ्कारहीर: पण्डितश्रेष्ठश्रेणीकिरीटभूषणवज्रमणिः, श्रीहीरः, मामल्लदेवी च, जितेन्द्रियचयं वशीकृतहृषीकसमूह, यं श्रीहर्ष, सुतं पुत्रं, सुषुवे=जनयामास / तस्य श्रीहर्षस्य, प्रबन्धे - रचनायां, चारुणि=सुन्दरे, नैषधीयचरितेतदाख्ये महाकाव्ये, अयं = सन्निकृस्थः, तार्तीयीकतया-तृतीयत्वेन, मितः= परिमितः, निसर्गोज्ज्वल:=स्वभावसुन्दरः, सर्गः= अध्यायः, अगमत् = गतः, समाप्त इति भाव // 136 // अनवाद --श्रेष्ठ पण्डितोंकी श्रेणीके मुकूटके हीरकस्वरूप श्रीहीर और मामल्लदेवीने इन्द्रियोंको जीतनेवाले जिन श्रीहर्ष पुत्रको उत्पन्न किया, उनकीरचनामें सुन्दर, नैषधीयचरित महाकाव्य में यह तृतीयरूपसे परिमित, स्वभावसे सुन्दर सर्ग समाप्त हुआ // 136 // टिप्पणी- तार्तीयीकतया त्रयाणां पूरण: तृतीयः, 'त्रि' शब्दसे ": सम्प्रसारणं च" इससे तीय प्रत्यय और सम्प्रसारण / तृतीय एव तार्तीयीकः, 'तृतीय' शब्दसे "तृतीयादीका स्वाऽर्थे वा वाच्यः" इस वार्तिकसे स्वार्थ मेंविकल्पसे ईका प्रत्यय और कित् होनेसे "किति " इस सूत्रसे आदिवृद्धि / तार्तीयीकस्य भावः तार्तीयीकता, तया, तार्तीयीक+तल+टा+टा / शेष भाग पहलेके समान / / 126 / / इति श्रीचन्द्रकलाऽभिख्यायां नैषधीयचरितव्याख्यायां तृतीयः सर्गः / छात्रप्रबोधकरणाऽर्षमयं प्रयास ष्टीकाकृतोऽत्र नहि कोऽपि मतिप्रकाशः। स्यात्सम्भ्रमभ्रमकृतं मम दूषणं चेद क्षाम्यन्तु तद्बुधवराः सुकृतः प्रतीक्याः॥ 1500