________________ तृतीया सर्ग: 87 अन्वयः-रात्रौ शय्याम् अधिशय्य स्थितस्य तस्य मनो मोहे निमज्जयन्ती या आलिङ्गय लोचने चुम्बति, सा निद्रा त्वत् ऋते अङ्गना वा अधुना न // व्याल्या-अथैकेन पद्येन निद्राच्छेदं विषयनिवृत्ति चाह-स्थितस्येति / रात्री=निशायां, शय्यां पर्यङ्कम्, अधिशय्य =शयित्वा, स्थितस्य = विद्यमानस्य, तस्य =नलस्य, मनः=मानसं, मोहे = वैचित्ये, सुखपारवश्य इति भावः / निमज्जयन्ती=प्रापयन्ती सती, या, आलिङ्गय =आश्लिष्य, लोचने नेत्रे, चुम्बति तत्र सम्बन्धं करोति, सातादृशी, निद्रा स्वापक्रिया, त्वत् =भवत्याः, ऋते= विना, अङ्गना वा नायिका वा, अधुना = इदानीं, न= नास्ति, रात्री नलस्य निद्रा त्वां विना काऽपि नायिका च न वर्तत इति भावः / अत्र निद्रानिषेधाज्जागरः, अन्यस्या अङ्गनाया निषेधाद्विषयनिवृत्तिश्चोक्ता // ___ अनुवाद - ( हे राजकुमारी ! ) रातमें पलंगपर लेटनेवाले नलके मनको मोहमें डालती हुई जो आलिङ्गन कर नेत्रोंको चूमती है, वह निद्रा अथवा आपके सिवाय कोई स्त्री अभी नहीं है / / 108 // टिप्पणी-शय्याम्="अधिशय्या" अधि-पूर्वक शीङ् धातुके योगमें "अधिशीस्थाऽऽसां कर्म" इस सूत्रसे कर्मसंज्ञा होकर द्वितीया / अधिशय्य=अधि+ शीङ् + क्त्वा (ल्यप्) / निमज्जयन्ती=नि+ मस्ज + णिच+लट् ( शतृ)+ - डीप् + सु / चुम्वति = चुबि+लट् + तिप् / त्वत् = "ऋते" इस पदके योगमें "अन्यारादितरते." इस सूत्रसे पञ्चमी। इस पद्यमें प्रस्तुत निद्रा और अङ्गनाका चुम्बन आदि धर्मके साथ सम्बन्ध होनेसे तुल्ययोगिता अलङ्कार है / / 108 // स्मरेण निस्तक्ष्य वृथव बाणलावण्यशेषां कृशतामनायि / अनङ्गतामप्ययमाप्यमानः स्पर्धा न साधं विजहाति तेन // 106 // अन्वयः- ( हे भमि ! ) अयं स्मरेण बाणः निस्तक्ष्य वृथा एव लावण्यशेषां कृशताम् अनायि / ( अयम् ) अनङ्गताम् आप्यमानोऽपि तेन साधं स्पर्धा न विजहाति / / 109 // - ग्याल्या-अत्र नलस्य तनुताम् ( कार्याऽवस्थाम् ) आह-स्मरेणेति / ( हे भैमि ! ) अयं = नलः, स्मरेण = कामदेवेन, बाणैः शरैः, निस्तक्ष्य = निशात्य, वृथा एव व्यर्थम् एव, लावण्यशेषां सौन्दर्याऽवशेषां, कृशतां= तनुताम्, अनायि-प्रापितः / वृथात्वं व्यनक्ति-अनङ्गतामिति / अनङ्गतां=