________________ नषधीयचरित महाकाव्यम् "ये अभिज्ञ ( जानकार ) है" प्रसिद्धिसे ही आयुको बितानेवाले ब्रह्माजीके लिए लोकापवादस्वरूप समुद्रको पार करनेके लिए कौन-सा उपाय नौकाका काम देगा? // 51 // टिप्पणी-विज्ञत्वकील्-विज्ञस्य भावो विज्ञत्वम्, विज्ञ+ त्व / विज्ञत्वस्य कीतिः, तया (प० त० ) / गतजन्मनः='गतं जन्म यस्य स गतजन्मा' तस्य ( बहु० ) / जनाऽपवादाऽर्णवं = जनानाम् अपवादः (10 त० ), "अव र्णाऽऽक्षेपनिर्वादपरीवादाऽपवादवत्" इत्यमरः / जनाऽपवाद एव भर्णवः, तम् ( रूपक० ) / उत्तरीतुम् उद्+त+तुमुन् / “तृतो वा" इससे दीर्घ / तरी:तरन्त्यनया इति, तु धातुसे "अवितृस्तृतन्त्रिभ्य ई:" इस औणादिक सूत्रसे ई प्रत्यय / "स्त्रियां नौस्तरणिस्तरी:" इत्यमरः // 55 // आस्तां तवप्रस्तुतचिन्तयाऽलं, मयाऽसि तन्धि ! अमिताऽतिवेलम् / सोऽहं तवागः परिमाष्ट्रकामस्तवेप्सितं किं विदधेऽभिधेहि // 52 // अन्धयः-तत् आस्ताम्, अप्रस्तुतचिन्तया अलम् / हे तन्वि ! मया अतिवेलं श्रमिता असि / तत् आगः परिमाष्टुकामः सोऽहं किं तव ईप्सितं विदधे ? अभिधेहि / / 52 // __व्याल्या-दमयन्त्या अभिप्रायं ज्ञातुमुपसंहरति-आस्तामिति / (हे भैमि!) तत् =पूर्वोक्तं, नलवर्णनमित्यर्थः, आस्तां तिष्ठतु, अप्रस्तुतचिन्तया - अप्रकृतविचारेण, अलं पर्याप्तम्, अप्रस्तुतचिन्तया साध्यं नास्तीति भावः / हे तन्वि-हे कृशागि ! मया हंसेन, अतिवेलं = भृशं, श्रमिताखेदिता, असि - वर्तसे, त्वमिति शेषः। तत् =श्रमणरूपम्, आगः = अपराध, परिमाष्टुकामः परिहर्तुकामः, सः तादृशः, अहम् =अपरोद्धा, कि, तव भवत्याः, ईप्सितम् =अभीष्टं, मनोरथमिति भावः / विदधे =कुर्वे / अभिधेहिब्रूहि // 52 // अनुवाद-वह वर्णन इतना ही हो। अप्रस्तुत विषयकी चिन्ता नहीं करनी चाहिए / हे कृशोदरि ! आप मुझसे बहुत ही परिश्रान्त बनाई गई हैं। उस अपराधको हटानेकी इच्छा करनेवाला मैं आपका कौन-सा मनोरथ पूरा करूं ? कहिए // 52 // टिप्पणी-आस्ताम् = "आस उपवेशने" धातुसे लोट् + त / अप्रस्तुतचिन्तया=न प्रस्तुतः अप्रस्तुतः ( न० ) / तस्य चिन्ता, तया (ष० त०)। "अलम्" इस पदसे गम्यमान साधन क्रियाकी अपेक्षासे करण होनेसे तृतीया /