________________ 18 नैषधीयचरितं महाकाव्यम् रिति भावः / पक्षः- पतत्रैः, स्मरकेलिकाले == रतिक्रीडासमये, तं = पूर्वोक्तं, नृपं = राजानं नलं, वीजयामः= वातं सृजाम इति भाव / राज्ञः सुरतश्रमं निवारयाम इति भावः // 22 // अनुवाद-सुमेरुपर्वतसे शीघ्र उतर कर मन्दाकिनीके जलके बिन्दुओंके सम्पर्कयुक्त चामरके समान पङ्खोंसे रतिक्रीडाके समय में नलको हम पङ्खा . झलते हैं // 22 // ___ टिप्पणी- सुवर्णशैलात्-सुवर्णस्य शैलः, तस्मात् ( 10 त० ) / अवतीर्यअव+तृ + क्त्वा ( ल्यप् ) / स्वर्वाहिनीवारिंकणाऽवकीर्णैः - वारिणः कणाः (ष० त०), स्वर्वाहिन्या वारिकणाः (ष० त०), तैः अवकीर्णाः, तैः (तृ० त०) / चामरबद्धसख्यः= बद्धं सख्यं यस्ते (बहु०) चामरेषु बद्धसख्याः , तैः (स० त०) स्मरकेलिकाले स्मरस्य केलि: (ष० त० ), तस्य कालः, तस्मिन् (ष० त० ) // 22 // क्रियेत चेत्साधुविभक्तिचिन्ता, व्यक्तिस्तदा सा प्रथमाऽभिधेया। या स्वौजसां साधयितुं विलासंस्तावत्क्षमानामपदं बहु स्यात् // 23 // अन्वयः-साधुविभक्तिचिन्ता क्रियेत चेत्, सा व्यक्तिः प्रथमा अभिधेया। या स्वौजसां विलासः तावत्- बहु अनामपदम्, (पक्षान्तरे -- नामपदं) साधयितुं क्षमा स्यात् / / 23 // व्याख्या-साधुविभक्तिचिन्ता=सज्जन विभागविचार:, क्रियेत चेत् -- विधीयेत यदि, सा= नलनामधेया, व्यक्तिः= मतिः, प्रथमाऽभिधेया-प्रथम परिगणनीया / याः= नलनामधेया व्यक्तिः, स्वौजसां= निजतेजसां, विलासैःविभवः, बहुप्रचुरम्, अनामपदं = परराष्ट्र, साधयितुं स्वायत्तीकर्तुम्, क्षमा : समर्था, स्यात् =भवेत् / / 23 // ___ पक्षान्तरे-साधुविभक्तिचिन्ता-सप्तविभक्तिविचारः, क्रियेत चेत्-विधीयेत यदि, सा-प्रसिद्धा, प्रथमा-प्रथमाऽऽख्या, व्यक्ति:-विभक्तिः, अभिधेया-कथनीया, या=प्रथमा विभक्तिः, स्वीजसा=सु-औ-जस् इत्येतेषां प्रत्ययानां, विलासैः=विस्तारः, तावत्, बहु=अनेकं, नामपदं = सुबन्तपदं, राम इत्यादिकं पदमिति भावः / साधयितुं निष्पादयितुं, क्षमा= समर्था // 23 // अनुवाद-सज्जनोंके विभागका विचार किया जायेगा तो "नल" नामवाले व्यक्तिको पहले परिगणन करना चाहिए। जो अपने प्रतापके विभवोंसे प्रचुर शत्रुओंके राष्ट्रको वशमें करने के लिए समर्थ होगा // 23 //