________________ 104 - मेषधीयचरितं महाकाव्यम् "प्रेक्ष्य" इसमें क्त्वा निर्देशकी उपपत्ति है। इस पद्यमें शचीरूप उपमानसे उपमेयभूत दमयन्तीके आधिक्यकी उक्तिसे व्यतिरेक अलङ्कार है // 109 / / श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं . श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / द्वतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः // 110 // - अन्वयः-कविराजराजिमुकुटाऽलङ्कारहीरः श्रीहीरः मामल्लदेवी च जिते. न्द्रियचयं यं श्रीहर्ष सुतं सुषुवे / तस्य प्रबन्धे चारुणि नैषधीयचरिते महाकाव्ये अयं द्वतीयीकतया मितः निसर्गोज्ज्वलः सर्गः अगमत् // 110 // व्याख्या-व्याख्यातपूर्वः श्लोकः संक्षेपेण पुनर्व्याख्यायते / कविराजराजिमुकुटाऽलङ्कारहीरः पण्डितश्रेणीकिरीटभूषणवज्रमणिः, श्रीहीरः, मामल्लदेवी च, जितेन्द्रियचयं =वशीकृतहृषीकसमूह, यं श्रीहर्ष, सुतं-पुत्रं, सुषुवे =जनयामास / तस्य = श्रीहर्षस्य, प्रबन्धे =रचनायां, चारुणिमनोहरे, नैषधीय. चरिते तदाख्ये महाकाव्ये, अयं =सनिकृष्टस्थः, द्वतीयीकतया=द्वितीयत्वेन, मितः=गणितः, निसर्गोज्ज्वल:-स्वभावसुन्दरः, सर्गःअध्यायः, अगमत् = गतः, समाप्त इति भावः // 110 // __ अनुवाद-श्रेष्ठ पण्डितोंकी श्रेणीके मुकुटके अलङ्कार हीरेके समान श्रीहीर और मामल्लदेवीने इन्द्रियोंको जीतनेवाले जिन श्रीहर्ष पुत्रको उत्पन्न किया, उनकी रचनामें सुन्दर नैषधीयचरित महाकाव्यमें यह द्वितीय रूपसे परिमित स्वभावसे मनोहर सर्ग समाप्त हुआ // 110 // टिप्पणी-द्वतीयीकतया = द्वयोः पूरणो द्वितीयः, 'द्वि' शब्दसे "देस्तीयः" इससे पूरणाऽर्थक तीय प्रत्यय / द्वितीय एव द्वतीयकः, "द्वितीय" शब्दसे "तीयादीकक स्वार्थे वा वाच्यः" इससे ईका प्रत्यय / कित होनेसे "किति च" इससे आदिवृद्धि / द्वतीयीकस्य भावो द्वतीयीकता, तया द्वैतीयीक+तल+ टाप् +टा / मितः=माङ्+क्तः। निसर्गोज्ज्वल:=निसर्गेण उज्ज्वल: (तृ० त० ) / अगमत् = गम् + लु+तिप् / च्लिके स्थानमें अङ् // 110 // इति चन्द्रकलाऽभिल्यायां नैषधीयचरितव्याख्यायां द्वितीयः सर्गः।