________________ 14 मैषधीयचरितं महाकाव्यम् अन्धयः-(हे नृप ! ) इदं मदीरितं विचारचारु न भविता चेत् तदपि अन्यम् / इयं खगवाक् इत्यतः अपि कीरगीः इव मुदं किं न दास्यति // 15 // व्याख्या-स्ववचः श्रवणे हेतुमुपपादयति-भवितेति / ( हे नृप ! ) इदंवक्ष्यमाणं, मदीरितं=मत्कथितं, वच इति भावः / विचारचार-विमर्शमनोहरं, न भविता चेत् =नो भविष्यति यदि, तदपि तथाऽपि मदीरिते विचारचारुत्वाऽभावेऽपीति भावः / श्रव्यं श्रोतव्यम्, इयम् एषा, खगवान पक्षिवाणी, इत्यतः अपि=अस्मात्कारणात अपि, कीरगीः इव शुकवाणी इव, मुदं हर्ष, कि न दास्यति=किं न वितरिष्यति ? दास्यत्येवेति भावः / विचारचारुत्वाऽभावेऽपि कौतुकादपि मदीरितं वचः श्रोतव्यमिति भावः // 19 // ___ अनुवाद-(हे राजन् ! ) यह मेरा वचन विचार करनेपर मनोहर न हो तो भी सुनना चाहिए। यह पक्षीकी वाणी है इस कारणसे भी तोतेकी वाणी क्या हर्ष उत्पन्न नहीं करेगी // 15 // टिप्पणी-मदीरितं मया ईरितम् (तृ० त०) "वचः" इस पदका अध्याहार करना चाहिए / विचारचार-विचारे चारु (स० त०) भविताभू+लुट् + तिप् / श्रव्यम् -श्रोतुम् अहम्, श्रु धातुसे "अचो यत्" इस सूत्रसे यत् प्रत्यय, "सार्वधातुकार्धधातुकयोः" इससे गुण "धातोस्तन्निमित्तस्यैव" इस सूत्रसे अव आदेश / खगवाक् - खगस्य वाक् (प० त०)। कीरगी:कीरस्य गीः (10 त०)। दास्यति=दा+लट् + तिप् / इस पद्यमें उपमा बलकार है // 15 // स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः // ___ यमवाप्य विवभूः प्रमुं हसति बामपि शक्रमmकाम् // 16 // अन्वयः-अरिसार्थसार्थकीकृतनामा स भीमभूपतिः जपति किल / यं प्रभम् अवाप्य विदर्भभूः शक्रभर्तृकां चाम् अपि हसति // 16 // ज्याच्या साम्प्रतं स्ववचो वक्तुमुपक्रमते-स जयतीति / अरिसार्थसार्थकी कृतनामा- शत्रुसमूहाऽन्वर्थीकृताऽभिधानः, सः प्रसिद्धः, भीमभूपतिःभीमाऽऽख्यनृपः, जयति किल=सर्वोत्कर्षेण वर्तते खलु / यंभीमभूपति, प्रभुंभारम्, अवाप्य प्राप्य, विदर्भभूः-विदर्भभूमिः, शकभर्तृकाम् इन्द्रस्वामिका, चाम् अपि =दिवम् अपि, लक्ष्यीकृत्येति शेषः / हसति= उपहसति, किमुत अन्यभत कदेशमिति शेषः / स्त्रियो हि भर्तृरुत्कर्षादन्याः स्त्रीरुपहसन्तीति भावः // 16 //