________________ नैषधीयचरितं महाकाव्यम् कण्डूयितमौलिः ( सुप्सुपा० ) / शिश्रिये="श्रिब् सेवायाम्" धातु से लिट् "लिटस्तझयोरेशिरेच्" इस सूत्र से 'त' के स्थान में एश् / स्वभावोक्ति अलङ्कार // 3 // स गरद्वनदुर्गदुर्ग्रहान् कटु कीटान् दशत: सतः क्वचित् / नुनुदे तनुकण्ड पण्डित: पटुचञ्चपटकोटिकुट्टनः // 4 // अन्वयः-पण्डितः स गरुद्वनदुर्गदुर्ग्रहान् कटु दशतः क्वचित् सतः कीटान् पटुचञ्चूपुटकोटिकुट्टनैः तनुकण्डु नुनुदे // 4 // ____ व्याल्या-पण्डितः=निपुणः, कीटाद्यपनयनप्रवीण इति भावः / सः= हंसः, गरुद्वनदुर्गदुर्ग्रहान् =पक्षसमूहदुर्गमस्थानदुर्गाह्यान्, कटु तीक्ष्णं, दशतः= तुदतः दन्तरिति शेषः / क्वचित् =कुत्रचित्, सतः=वर्तमानान्, कीटान् =क्षुद्रजन्तून्, पटुचञ्चूपुटकोटिकुट्टनः = समर्थत्रोटयग्रघट्टनः, तनुकण्डु-अल्पखर्जु यथा तथा, नुनुदे=निवारितवान् // 4 // ___अनुवाद-कीड़ोंको हटानेमें निपुण उस हंसने पक्षसमूहरूप किले में न पकड़े जानेवाले तीक्ष्ण रूपसे काटनेवाले ऐसे कहींपर रहे हुए कीड़ोंको मजबूत चोंचकी नोकके आघातोंसे खुजलीको कम कर हटाया // 4 // टिप्पणी-पण्डितः=सत् और असत्का विवेक करनेवाली बुद्धिको. "पण्डा" कहते हैं। पण्डा सजाता अस्य पण्डितः, 'पण्डा' शब्दसे "तदस्य सञ्जातं तारकादिभ्य इतच्' इससे इतच् प्रत्यय / गरुद्वनदुर्गदुर्ग्रहान् =गरुतां वनम् ( ष० त० ) तदेव दुर्गम् ( रूपक० ) / दुःखेन ग्रहीतुं शक्या दुर्ग्रहाः, दु+ग्रह+खल ( उपपद०)। गरुद्वनदुर्गदुर्ग्रहाः, तान् ( स० त० ) / कटु= यह क्रियाविशेषण है / दशतः=दशन्तीति दशन्तः, तान् (दश+ लट् + शतृ +शस् ) / सतःसन्तीति सन्तः, तान् (अस् + लट् + शतृ+शस्) / पटुचञ्चूपुटकोटिकुट्टनः=चञ्च्वोः पुटम् (ष० त०) / पटु च तत् चञ्चूपुटम् (क०धा०) तस्य कोटि: ( अग्रभागः ), (10 त०), तया कुट्टनानि, तैः (तृ० त०)। तनुकण्डु =तनुः कण्डूः यस्मिन् ( कर्मणि ) ( बहु० ), तद्यथा तथा / "कण्डूः खर्जूश्च कण्डूया" इत्यमरः / नुनुदे="णुद प्रेरणे" इति धातोलिट् / रूपक और स्वभावोक्तिकी संसृष्टि है / / 4 // अयमेत्य तडागनीडलघु पर्यत्रियताऽय शङ्कितः। उदडीयत कृतात्करग्रहजादस्य विकस्वरस्वरः॥५॥