________________ // श्रीः // नैषधीयचरितं महाकाव्यम् चन्द्रकलाऽऽख्यया व्याख्यया हिन्धनुवादेन च विभूषितम् द्वितीयः सर्गः भक्ताऽभिलाषपरिपूरणसक्षणा या, रक्षापराऽतिहरणाय धृतव्रता या। विश्वेश्वरस्य रमणी करुणापरा सा दाक्षायणी मम कृति सफलां विधत्ताम् / / अधिगत्य जगत्यवीश्वरादथ मुक्ति पुरुषोत्तमात्ततः / वचसामपि गोचरो न यः स तमानन्दविन्दत द्विजः॥१॥ ____अन्वयः-अथ स द्विजः जगत्यधीश्वरात् पुरुषोत्तमात् ततः मुक्तिम् अधिगत्य यो वचसाम् अपि गोचरो न, तम् आनन्दम् अविन्दत // 1 // ग्याल्या-हंसमुखेन भैमीवर्णनाऽयं द्वितीयं सर्गमारभते-अथ=मोचनाजन्तरं, सः पूर्वोक्तः, द्विजः=पक्षी विप्रश्न, जगत्यधीश्वरात-भूपतेः, भुवनपतेश्व, पुरुषोत्तमात्=पुरुषश्रेष्ठाद, विष्णोश्व, ततः नलात् प्रसिद्धान्च, मुक्ति मोचनं निर्वाणं च, अधिगत्यप्राप्य, यः= आनन्दः, वचसाम् अपि= क्यानाम् अपि, गोचरः=ग्राह्यः, न, वक्तुमशक्य इति भावः / तं = तादृशम्, जानन्दं सुखं, परमानन्दं च मोक्षजन्यमिति भावः / अविन्दत=अलभत / यथा विप्रो भुवनपतेविष्णोर्मोक्षं प्राप्य अनिर्वचनीयमानन्दं प्राप्नोति तथैव स हंसोऽपि अपतेः मोचनं प्राप्य वाचामविषयं सुखं प्राप्तवानिति भावः // 1 // अनुवाब-तब वह हंस जैसे ब्राह्मण लोकपति भगवान् विष्णु से मोक्ष पाकर अनिर्वचनीय आनन्द पाता है, उसी तरह भूपति, पुरुषश्रेष्ठ नलसे छुटकारा पांकर अवर्णनीय आनन्दको प्राप्त हुआ // 1 //