________________ प्रथमः सर्गः हिंसापापकारिणीरित्यर्थः / शम्बरारेः = कामदेवस्य, बलिदीपिका इव - पूजाप्रदीपान् इव, चम्पककोरकाऽवली: = चम्पकपुष्पकलिकाश्रेणी:, व्यलोकयत् = अपश्यत् // 86 // अनुवाद:-नलने भ्रमररूप कज्जलके छलसे पान्थरूप पक्षियोंके वधसे पाप कर्मों को इकट्ठा करती हुई, कामदेवकी पूजाके प्रदीपोंके समान चम्पक पुष्पोंकी कलियोंको देखा / / 86 // टिप्पणी-अलिकज्जलच्छलात् = अलयः कज्जलानि इव अलिकज्जलानि, "उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे" इससे समास / अलिकज्जलानां छलं, तस्मात् (10 त०)। पान्थपतङ्गहिंसनः = पन्थानं नित्यं गच्छन्तीति पान्थाः, पथिन् शब्दसे “पन्थो ण नित्यम् इस सूत्रसे ण प्रत्यय, पन्थ आदेश और आदि वृद्धि, "अध्वनीनोऽध्वगोऽध्वन्यः पान्थ पथिक इत्यपि / " इत्यमरः। पान्था एव पतङ्गाः (रूपक०) / "पतङ्गो पक्षिसयौ च" इत्यमरः / पान्थपतङ्गानां हिंसनानि तैः (10 त० ) / अपुण्यकर्माणि = पुण्यानि च तानि कर्माणि (क० धा० ) / न पुण्यकर्माणि, तानि ( नत्र ) / विचिन्वतीः = विचिन्वन्तीति विचिन्वन्त्यः ता: वि+चिन् + लट् (शत)+ ङीप-शस् / शम्बराऽरेः =शम्बरस्य अरि, तस्य (प० त०)। "शम्बराऽरिर्मनसिजः / इत्यमरः / बलिदीपिका = बलेः दीपिकाः, ताः (10 त०)। चम्पककोरकाऽऽवली = कोरकाणाम् आवल्यः (10 त०)। बम्पकानां कोरकावल्यः, ता: / ष० त० ) / व्यलोकयत् = वि+लोक+णिच् +लङ्+तिप् / इस पद्यमें रूपक केतवाऽपह्नुति, उत्प्रेक्षा और उपमा इनका बङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है / / 86 // अमन्यताऽसौ कुसुमेषु गर्भज परागमन्धकरणं वियोगिनाम् / स्मरेण मुक्तषु पुरा पुराऽरये तदङ्गभस्मेव शरेषु सङ्गतम् / / 87 / / अन्वयः-अयं कुसुमेषुगर्भ वियोगिनाम् अन्धकरणं परागं पुरा स्मरेण पुराऽरये मुक्तेषु शरेषु सङ्गतं तदङ्गभस्म इव अमन्यत // 7 // व्याख्या-असौ = नल:, . कुसुमेषुगर्भजं = पुष्परूपबाणाऽभ्यन्तरजातं, "कुसुमेषु गर्भगम्" इति पाठान्तरे कुसुमेषु :पुष्पेषु गर्भगम् = अन्तःस्थितमित्यर्थः / वियोगिनां = विरहिणाम, अन्धकरणं नेत्रोपघातकं, परागं = सुमनोरजः, पुरापूर्व, स्मरेण = कामदेवेन, पुराऽरये = शिवाय, मुक्तेषु = निक्षिप्तेपु, शरेषु = माणेषु, सङ्गतं = संसक्तं, तदङ्गभस्म इव = पुरार्यवयवभसितम् इव, अमन्यत = उत्प्रेक्षितवान् / / 87 // - अनुवाद:-राजाने फूलोंके भीतर रहे हुए, विरहियोंको अन्धा करानेवाले