________________ 98 नैषधीयचरितं महाकाव्यम् भावः-गोर्यादीनामप्सरोरुपमयं ज्ञात्वा जातामिन्द्रशमां नलस्य / ____ अर्थ स्वाक्तर्मानवीयं विधाय शङ्कातकं दुरितं तन्मघोना / / अनुवाब:-इस प्रकार दमयन्ती का वर्णन करते हुये इन्द्र ने पास में बैठे शङ्कित मन से नल द्वारा देखे जाने पर अपनी उक्ति का मानव पक्ष वाला अर्थ करके उनकी शङ्का को दूर कर दिया / / 135 // स्वं नैषधादेशमहो ! विधाय कार्यस्य हेतोरपि नानलः सन् / कि स्थानिवद्भावमधत्त दुष्टं तादककृतव्याकरणः पुनः सः ? // 136 / / अन्वयः--सः कार्यस्य हेतोः स्वं नैषधस्य. आदेशं विधाय नानल: सन् पुनः तादृक्कृतव्याकरण: अपि सः स्थानिवद्भावं दुष्टं न व्यधत्त किम् / व्याख्या-सः = इन्द्रः, कार्यस्य = भैमीलाभस्य, हेतोः= कारणात्, स्वम् = आत्मानम्, नैषधस्य = नलस्य, आदेशम्-नलरूपादेशम्, विधाय = कृत्वा, नानल: = नलरूपो भूत्वा, पुनः = नलशङ्कानन्तरम् तादृक् कृतव्याकरणः =तथाविध: मानवोचितविहितविवरण: अपि सन् सः= इन्द्रःस्थानीयः भूत्वा न भवति परिवर्तते तद्वत् स्थानिवत् = इन्द्रवत्, भावम् = आशयम्, दुष्टम् = परस्त्र्यभिलाषरूपम्, किम् = किमर्थम्, व्यधत्त= कृतवान् अहो। महेन्द्रस्यापि दुव्यंसनिता आश्चर्यम् / नलरूपधारिणा नलवत् साधुस्वभाववता भाव्यम् / किन्तु तं विहाय परप्रतारणरूपभावो घृत, इत्यकार्थमिति भावः / अन्यच्च तादककृतव्याकरणः माहेन्द्रव्याकरणकर्ता अपि पण्डितः स इन्द्रः नैषधरूपादेशं विधाय तद्रूपधारणेन तादृशो भूत्वा न अल् अनल, न अनल नानल अल रूपो भूत्वा तद्रूप कार्यस्य अल रूप कार्यस्य हेतोः दुष्टं स्थानिवद्भावं 'स्थानवदादेशोऽनल विधौ" इति पाणिनिसूत्रात् अनल विधाविति अल् कार्यविधो निषिद्धम् स्थानिवद्भावं कथं कृतवान् इति अहो आश्रयम् / / अन्यच्च तादृक्कृतव्याकरणः तथाभूत कृत संस्कारः 'स' इति शब्द: "त्यदादीनामः" तकारस्य स्थाने कृताकारादेशः "हलङयादिभ्य" इत्यादि सूत्रेण, अकारादेशस्य स्थानिवत्वेन हलं सम्पाद्य अनल कार्यस्य हेतोः सुलोपः कथन कृत इत्याश्चर्यम् / टिप्पणी-कार्यस्य हेतोः “षष्ठी हेतुप्रयोगे" इति षष्ठी नैषधादेशः = नेषधरूपम् आदेशः (कर्मधारयः ) नानलः सन् न अल: अनल: न अनल: नानलनलरूपः सन्नपि तथाकृतं व्याकरणः तथा कृतं मयंवत् कृतं व्याकरणं