________________ दशमः सर्गः अनुवाद:-आज कामदेव पराग युक्त (धूलिधूसर ) भृङ्ग रूप कीट से जूठा किया गया। (घुणक्षत ) अपने पुराने पुष्परूप धनुष को त्याग कर मध्य में मुष्टि से धारण किये गये के समान, दमयन्ती के भ्रूयुगल रूप नये धनुष को धारण करे। विशिष्ट गुण वाले नये धनुष को मिल जाने पर पुराने जीर्ण धनुष को छोड़ दे // 119 / / पद्मान् हिमे प्रावृषि खञ्जरीटान् क्षिप्नुर्यमादाय विधिः कचित् तान् / सारेण तेन प्रतिवर्षमुच्चैः पुष्णाति दृष्टिद्वयमेतदीयम् / / 120 // अन्वयः-विधिः यं सारम् आदाय तान् (निःसारान् ) हिमे पद्मान् प्रावृषि खजरीटान् क्वचित् क्षिप्नुः तेन सारेण प्रतिवर्षम् एतदीयम् दृष्टिद्वयम् उच्चैः पुष्णाति। व्याख्या--विधिः = ब्रह्मा यम् कमलखजरीटयोः सारम् आदाय = गृहीत्वा (निःसारान् ) हिमे=हिमती पद्मान् = कमलान् प्रावृषि= वर्षासु खञ्जरीटान् =खजनान् क्वापि = क्वचन क्षिप्नुः = प्रक्षेपणशील:, तेनःपूर्वगृहीतेन, सारेण श्रेष्ठभागेन प्रतिवर्षम् = प्रतिसमम्, एतदीयम् = एतस्याः . दमयन्त्याः सम्बन्धि दृष्टिद्वयम् नयनयुगलम् पुष्णाति = विशिष्ट शोभं करोति / . टिप्पणी-एतदीयम् = एतस्या इदम् एतदीयम् 'त्यदादीनि चेति' वृद्धसंज्ञावृद्धाच्छ इति छप्रत्ययः / दृष्टिद्वयम् = दृष्ट्योः द्वयम् / (10 तत्पु०)। ___भावः-हिमेऽरविन्दानपि खञ्जरीटान् वर्षास्वपास्यात्त तदीयसारैः / प्रत्यब्दमस्याः नयनद्वयस्य श्रियं प्रकृष्टां प्रकरोति धाता // - अनुवाद:-ब्रह्मा जिस कमल और खञ्जरीट के सार को लेकर निःसार उन दोनों को हिम ऋतु में कमल को एवं वर्षा में खजरीट को कहीं फेक देता है और उसी सार से प्रतिवर्ष दमयन्ति के नयनयुगल की श्री को विशिष्ट बनाता है / / 120 // एतदृशोरम्बुरुहैविशेषं भृङ्गो जनः पृच्छतु तद्गुणज्ञौ / इतीव धात्राकृत तारकालि-स्त्रीपुंसमाध्यस्थ्यमिहाक्षियुग्मे / / 121 // अन्वयः-'जनः एतादृशः अम्बुरुहैः सह विशेषम् तद्गुणज्ञो भृङ्गो पृच्छतु इतीव धात्रा इह अक्षियुग्मे तारकालि स्त्रीपुंसमाध्यस्थ्यम् अकृत। व्याख्या-जनः = लोकः, अम्बुम्हः कमलः सह-साकम्, विशेषम् = भेदम् तद्गणशो तयोः कमलेक्षणयोः गुणज्ञो =गुणभिज्ञो भृङ्गो भृङ्गदम्पति