________________ 78 मेषधीयचरितं महाकाव्यम् अन्वयः तदङ्गभोगावलिगायनीनां मध्ये निरुक्तिक्रमलज्जितानां स्वयं धृतां हृमण्डनं हियं प्रसाद अर्पयन्तीम् / व्याख्या-तदङ्गमोगावलिगायनीनाम् = तद्विषयकप्रबन्धविशेषगायिकानाम् मध्ये = प्रबन्धमध्ये, निरुक्तिकमकुण्ठितानाम् = यथावनिरूपणासमर्थानाम्, अप्सरसाम्- देवाङ्गनानाम्, स्वयम् आत्मना धृताम् = अवलम्बिताम्, हृदः = हृदयस्य, ( वक्षसन ) मण्डनम् = भूषणम्, ह्रियम् = लज्जोम्, प्रसादम् = स्तुतिपुरस्कारम् अपंयन्तीम् / स्वस्तुत्यसमर्थाः अप्सरसः लज्जयन्तीमित्यर्थः।। __ टिप्पणी-सैवाङ्क यस्य सा तदङ्गा (ब० बी० ) सा चासो भोगावली ( कर्मधा० ) तस्या गायनीनाम् (10 तत्पु०) बाहुलकात् कर्तरि ल्युट् / निरुक्तिक्रम कुण्ठितानां निरुक्तः क्रमः (ष. तत्पु० ) तस्मिन् कुण्ठिताः ( स० तत्पु० ) तासाम् / नवबध्वाः भूषणीभूतां लज्जा पुरस्कार रूपेण ताभ्यः अपंयन्तीम् / भावः-स्वप्रस्तवप्रक्रमकुण्ठिनानाम् देवाङ्गनानां सदसि स्थितानाम् / प्रसादरूपेण हृदि स्थितां ह्रियम् स्वभूषणं तां ह्रियमर्पयन्तीम् // अनुवादः-अपने अङ्गों को वर्णन करने वाली बीच में वर्णन में असमर्थता के कारण कुण्ठित अप्पमराओं को नववधू स्वभाव से धारण की हुई हृदय की लज्जा रूप भूषण को पुरस्कार के रूप में देती हुई / / 106 // तारा रदानां वदनस्य चन्द्र रुचा कचानाञ्च नभो जयन्तीम् / आकण्ठमक्ष्णोद्वितयं मधूनि महीभृतः कस्य न भोजयन्तीम् ? // 107 // अन्वयः-रदानां रुचा ताराः, वदनस्य (रुचा) चन्द्रम् कचानां (रुचा ) तमश्च जयन्तीम् अक्षणोः द्वितयं मधूनि कस्य महीभुजः आकण्ठं न भोजयन्तीम्। व्याख्या-रदानाम् = दन्तानाम्, रुचा-कान्त्याः, तारा:-तारकाः, वदनस्य-मुखस्य (रुचा), चन्द्रम् = सोमम्, कचानाम् = केशानाम् ( रुचा), तमः = अन्धकारच, जयन्तीम् =न्यक्कुर्वाणाम, अक्ष्णोः = नयनयोद्वितयम् = युगलम, मधूनि = कस्य, महीभुजः = राज्ञः, आकण्ठम् = आगलम्, न भोजयन्तीम् = आशयन्तीम्, अपि तु सर्वानेव भूभुजः भोजयन्तीमित्यर्थः / टिप्पणी-प्रसह्यार्थस्य न पदस्य भोजयन्तीम् पदेन सुप्सुपेति समासः / द्वितयम् - 'सङ्ख्यया अवयवे तयबिति तयप् प्रत्ययः / भोजयन्तीम् भुजेय॑न्ताद शतृप्रत्ययः।