________________ मेवधीयचरितं महाकाव्यम् चारो नाभिचार न नाभिचार: अनाभिचारः स न भवतीति नानाभिचारः नाभिसञ्चरणमित्यर्थः तस्य उचिता नानाभिचारोचिता सा चासो मेचकश्रीयस्या सा तथोक्ता ( नन् समासद्वयगर्भः षष्ठीतत्पुरुषः ततो बहुव्रीहिः)। यदीया = यस्या इयं यदीया 'वृद्धाच्छ०' इति छ प्रत्ययः / उदररोमरेखा=रोम्णां रेखा रोमरेखा उदरे रोमरेखा (10 तत्पु० सप्त० तत्पुरुषो)। भावः-नानाभिचारकाली त्रयी-त्रिवलि-निर्गता वितता। श्रुतिराथर्वणिकी वै यस्या रोमराजिरभवन्मध्ये // अनुवाद:-त्रिवली रूप त्रिवेदी मूल से निकल कर बढ़ती हुई नाना हिंसाकर्म से काली पक्ष में नाभि में सञ्चरण करने वाली काली रोमराजी अथर्ववेद की श्रुति है / 75 // शिक्षेव साक्षाच्चरितं यदीयं कल्पश्रियाऽकल्पविधियंदीयः / यस्याः समस्तार्थनिरुक्तिरूपनिरुक्तविद्या खलु पर्यणंसीत् // 76 // अन्वयः-शिक्षा एव यदीयम् चरितमभूत् यदीयः आकल्पविधिः कल्पश्रिया, निरुक्तविद्या खलु समस्तार्थनिरुक्तिरूपैः पर्यणसीत् / व्याख्या-शिक्षा = तन्नामाग्रन्यविशेषः, यदीयम = यत्सम्बन्धि, चरितम् आचारः अभूत् यदीयः- यत्सम्बन्धी, आकल्पविधिः-प्रसाधनप्रकारः, कल्पश्रिया-ौतगृहाकल्पशास्त्रशोभया, निरुक्तविद्या=यास्ककृतवेदार्थनिर्वचनम्, खलु = एव, समस्तार्थनिर्वचनरूपः अखिलगूढार्थप्रकाशनभनीरूपतया पर्यणंसीत् = परिणता अभवत् / टिप्पणी-आकल्पविधिः- आकल्पस्य विधिः (10 तत्पु०) कल्पश्रिया कल्पस्य श्रीः तया (10 तत्पु०) समस्तार्यनिरुक्तिरूपैः= समस्तानामर्थानां निरुक्तिरूपः ( कर्मधारय ष० तत्पुरुषी ) पर्यणंसीत् परिपूर्वात् नमेर्लुङ् / भावः-शिक्षाचरितम्, कल्पः प्रसाधनमय निरुक्तविद्या च / अर्थनिरुक्ति विद्याऽभूत यस्या वाण्याः क्रमादेवम् // अनुबादः-शिक्षाशास्त्र जिस सरस्वती का चरित्र कल्पशास्त्र श्रोत, गृह. सूत्र वैदिक यज्ञादि लौकिककर्मकाण्डादि प्रदर्शनपरक ग्रन्थ, जिसकी वेश रचना, और निरुक्त विद्या जिसकी गूढार्थ प्रकाशन का प्रकार हुए // 76 // जात्या च वृत्तेन च भिद्यमानं छन्दो भुजद्वन्द्वमभूत् यदीयम्। श्लोका विश्रान्तिमयीभविष्णु पर्वद्वयीसन्धिसुचिह्नमध्यम् // 77 //