________________ बशमः सर्गः मन्वयः हे वाणि ! नानाभुवनागतानां राज्ञां कुलं शीलं च जानासि अतः स्वम् एषां वावदूका भव तव मूकायितुम् अयं कः समयः। प्याल्या हे वाणि-शारदे ! नानाभवनागतानाम् = अनेकलोकसमागतानाम, राज्ञाम् = नरपतीनाम्, कुलम् =वंशम्, गोत्रं शीलम् = चरित्रम्, च जानासि - अवषि अता=अस्मात् कारणात, त्वम् एषाम् = कुलशीलादीनाम्, वावदुका% कथयित्री, भव-एधि / तव% भवत्याः, मूकायितुम् =मूकवदाचरितुम्, एषःभयम्, कः काल:=समयः, मोनस्य समयो नास्तीति भावः / . टिप्पणी-नानाभुवनागतानाम्नानाभुवनेभ्यः आगतानाम् (10 तत्पु०) वावदूका- 'वावदूकोऽतिवक्तरि' इत्यमरः / वावदूक इत्यस्य वदेर्यग्लुङन्तात् उलूकादयश्चेति, उणादिसूत्रात् अकप्रत्ययः। मूकशब्दाचारक्यजन्तात् "कालसमयवेलासु तुमुन्" इति तुमुन् प्रत्ययः। भावः-नाविदितं तव किञ्चित् भुवनत्रयवतिसर्वलोकानाम् / ___ अत एषां त्वं वर्णय वरगतमखिलं विवित्सितं तत्त्वम् // अनुवादः हे सरस्वति अनेक लोक से आये हुए इन सभी राजाओं के कुल और शील को तुम भलीभांति से जानती हो अतः तुम उनको विशद रूप से वर्णन करो, यह समय तुम्हारे चुप बैठने का नहीं है / 71 // जगत्रयीपण्डितमण्डितैषा सभा न भूता न च भाविनी वा। राज्ञां गुणज्ञापनकेतवेन सङ्ख्यावतः श्रावय वाङ्मुखानि // 72 // अन्वयः--हे वाणि! जगत्त्रयीपण्डितमण्डिताः एषा सभा न भूता न भवित्री वा अतः राज्ञाम् गुणज्ञापनकैतवेन सङ्ख्यावतः वाङ्मुखानि श्रावय। व्याख्या हे वाणि- सरस्वति जगत्त्रयोपण्डितमण्डिता-त्रिलोकी विद्वद्विभूषिता, एषा- एतादृशी, सभा-संसद, न भूता-प्राङ्नाभूद, न भवित्री वा-न अग्रे भाविनी वा, अतः= अस्मात् कारणात, राज्ञाम् - नृपाणाम, गुणशापनकतवेन =गुणवर्णनव्याजेन, सध्यावतः = विदुषः वाङ्मुखानि श्रावय = उपन्यस्तान् श्रावय पण्डितसमाज एव वागविलाससाफल्यं भवति / टिप्पनी-जगत्त्रयीपण्डितमण्डिता-त्रयोऽवयवा यस्या सा इति त्रयी; सख्याया अवयवे तयप् इति तयप् प्रत्ययः द्वित्रिभ्यां तयस्यायज्वा' इति तयपोऽयजादेशः जगतां त्रयी तस्यां पण्डितास्तमण्डता ( सप्तमी तृती. तत्पु०)। गुणज्ञापनकतवेन-गुणानां मापनं तदेव केतवम् तेन (10 तत्पु०, कर्मधारयः)।