________________ 25 . बशमः सर्गः . अन्वयः--तत्र पुरे उत्सववाञ्छया एव पथिद्वारगृहाणि चित्रीकृतानि तेषां महीभुजाम् आभरणप्रभाभिः नभः अपि किर्मीरम् अकारि / व्याख्या-तम- कुण्डिनपुरे, उत्सववाञ्छ्या = स्वयंवरोत्सवेच्छया, पथिद्वारगृहाणि = मार्गभवनानि, चित्रीकृतानि = चित्रादिना सुसज्जितानि कृतानि / तेषाम् = अभ्यागतानाम्, महीभुजाम् = भूपतीनाम्, आभरणप्रभाभिः = भूषणमणिकिरणः, नभः अन्तरिक्षम् अपि = च, किर्मीरम् = चित्रितम्, अकारि= कृतम् / टिप्पणी-उत्सवस्य वाञ्छा उत्सववाञ्छा तया उत्सववाञ्छया। पथिद्वारगृहाणि = 'पन्थानः द्वाराणि गृहाणि च' ( द्वन्द्व०)। चित्रीकृतानि = अचित्राणि चित्राणि कृतानीति चित्रीकृतानि, अभूततद्भावे च्चि प्रत्ययः 'च्वी च' इतीत्वम् / आभरणप्रभाभिः = आभरणानां प्रभाः ताभिः (10 तत्पु० ) 'चित्र किर्मीरकल्याषशवलताश्च कबुंरे' इत्यमरः / अत्र उदात्तालङ्कारः।। भाव: उत्सवस्येच्छया द्वारमार्गगृहाणि प्रागभूवन् सुसज्जीकृतान्येव तानि / आगतानां नृपाणां विभूषा प्रभाभिः काममासीनभश्चित्रितं तत्समग्रम् // अनुवादः-उस कुण्डिनपुर में उत्सव की इच्छा से ही रास्ते दरवाजे एवं भवन सुसज्जित और चित्रित कर दिये गये थे, आभ्यागत उन राजाओं के भूषणों की प्रभा से आकाश भी चित्रित हो गया // 31 // विलासर्वदग्ध्यविभूषणश्रीस्तेषां तथाऽभूत् परिचारकेऽपि / अज्ञासिषुः स्त्रीशिशुबालिशास्तं यथागतं नायकमेव कश्चन / / 32 // अन्वयः-तेषां परिचारके अपि विलासर्वदग्ध्यविभूषणश्री तथा अभूत् यथा स्त्रीशिशुवालिशाः तं समागतं कश्चन नायकम् एव अंशासिषुः / व्याख्या-तेषाम् = समागतानाम्, परिचारके = सेवके, अपि = चे, विलासवैदग्ध्यविभूषणश्रीः = कटाक्षभूविक्षेपादिचातुर्थ्यालङ्कारकान्तिः, तथा तादृशी; अभूत =आसीत्, यथा = येन प्रकारेण, स्त्रीशिशुबालिशा:- नारीबालकमूर्खाः; तम् = परिचारकम्, समागतम् = स्वयंवरार्थमागतम्, कञ्चन = कमपि, नायकम् - नेतारमेव, अज्ञासिषुः = ज्ञातवन्तः / - टिप्पणी-परिचारके = परिचरतीति परिचारकः तस्मिन् तथा, (परि+ चर्+ण्वुल ) विलासर्वदग्ध्यविभूषणश्री:-विलासच वैदग्ध्यञ्च विभूषणानि