________________ बशमः सर्गः अन्वयः-तथा निजास्येन नलाननस्य श्रियं लब्धुम् अनीश्वराणां तेषां बहिर्मुखानाम् अनलाननत्वं पुनरुक्तिदोषं तरीतुं न अलम् / व्याख्या--तथा = तेन प्रकारेण, निजास्येन= स्वमुखेन, नलाननस्य = नलमुखस्य, श्रियम्-शोभाम्, लब्धम् = प्राप्तुम्, अनीश्वराणाम् = असमर्थानाम् बहिर्मुखानाम् = अग्निमुखानाम्, अनलाननत्वम् = अग्निमुखत्वम्, अथ च नला. नन तुल्यमुखराहित्यम्, पुनरुक्तिदोषम् = वह्निमुखत्वे पूर्वसिद्धेऽपि पुनः वह्निमुखत्वसाधनरूपं दोषं तरीतुं = परिहर्तुम् न अलम् = न समर्थम् / ते पूर्वमेव अनलानना आसन् अधुना, प्रयासे कृतेऽपि अनलानना एवाभवन् इति भावः / अथ च पूर्वमपि नलमुखभिन्नमुखा आसन्, अधुना प्रयासे कृतेऽपि अर्थात् पूर्णचन्द्राननत्वसाधनेऽथवा विकसितकमलाननत्वसाधने च नलमुखभिन्नमुखत्वमिति पुनरुक्ति दोषं परिहर्तुमसमर्था अभवन् / टिप्पणी-निजास्येन = निजम् आस्यं निजास्यं तेन निजास्येन ( कर्मधारयः ) / नलाननस्य = नलस्याननं नलाननं तस्य नलाननस्य (10 तत्पु० ) / अनीश्वराणाम् =न ईश्वरा अनीश्वरास्तेषामनीश्वराणाम् (नञ्त त्पु० ) 'तस्मान्नुडचि' इति नुडागमः / बहिर्मुखानाम् = बहिः मुखं येषान्ते बहिर्मुखास्तेषां बहिर्मुखानाम् / (ब० व्रीहिः ) 'बहिर्मुखाः क्रतुभुजो गीर्वाणादानवारयः, इति, 'वहिः शुष्मा कृष्णवा' इति चामरः / अनलाननत्वम् = अनलः आननं येषान्ते अनलानना ( ब० वी० ) तेषां भावः अनलाननत्वम्, अथ च जलस्या ननमिवाननं येषान्ते ( इत्युपमानपूर्वको बहुव्रीहिः); ते च न भवन्त इत्यनलाननास्तेषां भावः अनलाननत्वम् = नलाननतुल्याननराहित्यम् / पुनरुक्तिदोषम् = पुनरुक्तेः दोषस्तं पुनरुक्तिदोषम् / 'अग्निमुखाः वै देवा' इति श्रुतेः / वह्निमुखे पूर्वसिद्धेऽपि पुनर्वह्निमुखत्वसाधनमिति पुनरुक्तिः / तरीतुम्-तृ+तुमुन्, 'वृतो वेति दीर्घः / भावः अशक्नुवन्तो नलवक्त्रलक्ष्मी बहिर्मुखास्ते समवाप्तुमेवम् / / न सिद्धसंसाधनदोषमुग्रं विहन्तुमीशा अनलाननत्वम् // . अनुवादः-उस प्रकार अपने मुख के द्वारा नल के मुख की शोभा को पाने में असमर्थ वे अग्निमुख ( देवता ) अनलाननत्व रूप पुनरुक्तिदोष का परिहार करने में असमर्थ ही रहे। वे पहले भी अनलानन ( नल के मुख से भिन्न मुख वाले ) थे, पूर्णचन्द्रमा-सा मुख बनाने पर या विकसित कमल के समान