________________ शमः सर्गः . अनुवादः-दमयन्ती द्वारा अपने कमल-सदृश नयनों से पराजित किये गये नेत्र वाले मृग को उसके सम्मुख न कर सके इसलिये वायुरूप दिक्पाल बिना सवारी के पैदल विदर्भ में दमयन्ती के विवाह के लिये नहीं जा सके // 12 // जातो न वित्ते न गुणे न कामः सौन्दर्य एव प्रवणः स वामः / स्वच्छस्वशेलेक्षितकुत्सबेरस्तां प्रत्यगान्न स्त्रितरां कुबेरः // 13 / / अन्वया-कामः जाती न, वित्ते न, गुणे च न प्रवणः सौन्दर्य एव प्रवणः 'सः वामः, स्वच्छस्वशैलेक्षितकुत्सवेरः कुबेरः स्त्रितरां न प्रत्यगात् / . व्याल्या कामः = मनसिजः, कन्याभिलाषः, वित्ते = धने, न प्रवणःनाधीनः, गुणे = शौर्यदयादाक्षिण्यादी, च न प्रवणः, किन्तु सौन्दर्य = कामनीयके, एव प्रवणः =अधीनः, यतः सः-कामः, वामः प्रतिकूल:, ( 'कन्या वरयते रूपम्' इति वचनात् ) स्वच्छस्वशैलेक्षितकूत्सवेर:- दर्पणाभकैलाशनिरीक्षितनिजकुत्सितशरीरः, कुबेर:= यथार्थनामा यक्षराजः, स्त्रितराम् =निखिलललनाललामभूताम्, न प्रत्यगात्न प्रत्यगमत् / टिप्पणी-स्वच्छस्वशैलेक्षितकुत्सवेरः= स्वच्छश्वासी स्वशैल: स्वच्छस्वशैल: कुत्सञ्च तद्वेरं कुत्सवेरम् ( उभयत्र कर्मधारयः ) स्वच्छस्वर्शले ईक्षितं कुत्सवेरं येन सः स्वच्छस्वशैलेक्षितकुत्सवेरः / (बहुव्रीहिः ) स्त्रितराम्-अतिशयेन स्त्रीति स्त्रितराम् 'अतिशायने तरबीयसुनौ' इति तरप् प्रत्ययः 'नद्याः शेषस्यान्यतरस्याम्' इति धादिपरो हस्वः / कौत्स्यलज्जया कुबेरौ न ययाविति भावः / भावः-कुलं न वित्तं न गुणान् कुमारी वरस्य यत् कामयते सुरूपम् / ___ आदर्शकल्पे स्वनगे विलोक्य कुत्सं स्वमङ्गं न गतो कुबेरः // अनुवाद-क्योंकि कन्या वर के कुल धन एवं गुणों को नहीं चाहती केवल सुन्दरता को ही पसन्द करती है कहा भी है कि 'कन्या वरयते रूपम्' क्योंकि काम प्रतिकूल होता है इसलिये कुबेर दर्पण के समान निर्मल कैलाश पर्वत में अपने कुत्सित रूप को देख कर लज्जा के वश त्रैलोक्य सुन्दरी उस दमयन्ती के वरण के लिये नहीं गये // 13 // भैमीविवाहं सहतेऽस्य कस्मादधं तनुर्या गिरिजा स्वभर्तुः। . - तेनाव्रजन्त्या विदधे विदर्भानीशानयानाय तयान्तरायः // 14 / / अन्वयः-गिरिजा स्वभर्तुः भैमीविवाहं कस्मात सहते या अस्य अधं तनुः तेन विदर्भान् अवजन्त्या तया ईशानयानाय अन्तरायः विदधे /