________________ 448 જ્ઞાનમંજરી श्रीमज्जिनचन्द्राह्वः सूरिनव्याकदीधितिप्रतापः / तस्यावदातसंख्या, गण्यते नो सुराधीशः // 8 // तच्छिष्यः पाठकाः श्रीमत्पुण्यप्रधानसंज्ञिताः / सुमतेः सागराः शिष्यास्तेषां विद्याविशारदाः / / 6 / / तच्छिष्याः साधुरंगाख्या, राजसाराः सुपाठकाः / सर्वदर्शनशास्त्रार्थ-तत्त्वदेशनतत्पराः // 10 // तच्छिष्या ज्ञानधर्माख्याः पाठकाः परमोत्तमाः / जैनागमरहस्यार्थ-दायका गुणनायकाः // 11 // तेषां शिष्या महापुण्य-कार्यसंसाधनोद्यताः / पाठका दीपचन्द्राख्याः शिष्यवर्गसमन्विताः // 12 // येन शत्रुजये तीर्थे, कुंथुनाथार्हतः पुनः / चैत्यसमवसरणे, प्रतिष्ठा विहिता वराः // 13 // चतुर्मुखे सोमजिता कृते यः पूर्णतां व्यधात् / प्रतिष्ठानकबिंबानां चक्रसिद्धाचले गिरौ // 14 // अहम्मदावादमध्ये सहस्त्रफणाद्यनेकबिंबानाम् / चैत्यानां च प्रतिष्ठां चकार यो धर्मवृद्धये // 15 // तच्छिष्येण स्वबोधार्थ, देवचंद्रेण धीमता / व्याख्याता सुगमा शुद्धा, टीकेयं तत्त्वबोधिनी // 16 // स्याद्वादस्य रहस्यानां ज्ञानाल्लब्धोदयेन च / देवचंद्रेण बोधार्थ, सुटीकेयं विनिर्मिता // 17 / / संवद्रसनिधिजलधि, चन्द्रमिते कातिके सिते पक्षे / पंचम्यां नव्यपुरे, कृतेयं ज्ञानमञ्जरी // 18 //