________________ सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त चकारेण तस्य विधानं वर्तमानादिप्रत्ययान्तरनिषेधार्थम् / ननु क्त्वादिभिर्भावे विधीयमानैः कर्तुरनभिहितत्वादोदनं पक्त्वा भुङ्क्ते देवदत्त इत्यादिषु कर्तरि तृतीया पामोति / नैवम् / भुजिप्रत्ययेनैव कर्तुरभिहितत्वान्न भवति / प्रधानशक्त्यभिधाने हि गुणशक्तिरभिहितवत् प्रकाशते इति / खित्त्वं चौरंकारमाक्रोशति स्वादुकारं भुङ्क्ते इत्युत्तरार्थम् / 1193 वापगुरो णमि // 4 // 25 // अपपूर्वस्य गुरैति इत्यस्य धातोः संध्यक्षरस्य स्थाने णमि प्रत्यये परे आकारादेशो वा स्यात् / अपगारमपगारम् / अपगोरमपगोरम् / आभीक्ष्ण्ये ख्णम् द्वित्वं च / अस्यपगारं युध्यन्ते / अस्यपगोरं युध्यन्ते / " द्वितीयया' इति णम् / 1194 पूर्वाग्रे प्रथमे // 5 / 4 / 49 // पूर्व अंग्रे प्रथम इत्येतेषूपपदेषु परकालेन तुल्यकर्तृके प्राकालेऽर्थे वर्तमानाद् धातोर्धातोः संबन्धे ख्णम् वा स्यात् / अनाभीक्ष्ण्यार्थ वचनम् / पूर्व भोजं व्रजति / पूर्व भुक्त्वा व्रजति / अग्रे भोज बजति / अग्रे भुक्त्वा व्रजति / प्रथमं भोज व्रजति / प्रथम भुक्त्वा व्रजति। वर्तमानादयोऽपि-पूर्व भुज्यते ततो व्रजति, अग्रे भुज्यते ततो व्रजति, प्रथमं भुज्यते ततो व्रजति / पूर्वादयश्चात्र व्यापारान्तरापेक्षे प्राकाल्ये व्रज्यापेक्षे तु क्त्वाख्णमाविति नोक्तार्थता / ततश्चायमर्थोऽन्यभोक्तभुजिक्रियाभ्यः स्वक्रियान्तरेभ्यो वा पूर्व भोजनं कृत्वा बजतीत्यर्थः / पूर्वप्रथमसाहचर्यात् अग्रेशब्दः कालवाची / 1195 अन्यथैवंकथमित्थमः कृगोऽनर्थकात् // 5450 // एभ्यः परात् तुल्यकर्तृकेऽर्थे वर्तमानात् करोतेरनर्थकात् धातोः संबन्धे ख्णम् वा स्यात् / अन्यथाकारं भुङ्क्ते / एवंकारं भुङ्क्ते / कथंकारम् इत्थंकारं भुङ्क्ते / पक्षे क्त्वैव / अन्यथा कृत्वा / एवं कृत्वा / कथं कृत्वा / इत्थं कृत्वा भुङ्क्ते / एवमुत्तरत्रापि / आनर्थक्यं करोतेरन्यथादिभ्यः पृथगर्थाभावात् / यावदुक्तं भवति अन्यथा भुङ्क्ते तावदुक्तं भवति अन्यथाकारं भुङ्क्ते इति / अनर्थकादिति किम् / अन्यथा कृत्वा शिरो भुङ्क्ते / अत्रान्यथाशब्दः शिरःप्रकारे करोतेश्च शिरः कर्म तन्न करोतिना विना गम्यत इति। 1196 यथातथादोत्तरे // 5 // 4 // 51 // यथातथाशब्दाभ्यां परात् तुल्यकर्तृ केऽर्थे वर्तमानादनर्थकात् करोतेर्धातोः संबन्धे सति रुणम् वा स्यात् ईयो त्तरे-ईयश्चेत् पृच्छते उत्तरं ददाति / कथं भवान् भोक्ष्यत इति पृष्टोऽसूयया तं