SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 825 गतौ / अरणिः अग्निमन्थनकाष्ठम् / हूंग हरणे / हरणिः कुल्या मृत्युश्च / सं गतौ। सरणिः ईषद्गतिः पन्थाः आदित्यः शिरा संघातश्च / मृत् प्राणत्यागे / मरणिः रात्रिः। धुंग धारणे। धरणिः क्षितिः। टुडु,ग्क पोषणे च / भरणिः नक्षत्रम् / डुकृग् करणे। करणिः सादृश्यम् / तृ प्लवनतरणयोः / तरणिः संक्रमः आदित्यः यवाग्रः पतितगोरूपोत्थापनी च यष्टिः / वै दुःखार्थः, दुःखेन तीर्यते इति वैतरणी नदी / ग्रहीथ उपादाने / ग्रहणिः जठराग्निः तदाधारो व्याधिः मेर् मृत्युश्च / कक्रेरिच्चास्य वा // 639 // ककुङ् गतावित्यस्मादणिः प्रत्ययो धातोरस्य चेकारो वा / कङ्कणिः कङ्कणम् / किङ्कणिः घण्टा / ____ककर्णित् // 640 // ककि लौल्ये इत्यस्मात् णिदणिः प्रत्ययः स्यात् / काकणिः मानविशेषः / कृषेश्च चादेः // 641 // कृषीत् विलेखने इत्यस्मादणिः प्रत्यय आदेश्व चकारः स्यात् / चर्षणिः चमूः अग्निः बुद्धिः व्यवसायः वेश्या दृषश्च / क्षिपेः कित् // 642 // लिपीत् प्रेरणे इत्यस्मात् किदणिः प्रत्ययः स्यात् / क्षिपणिः आयुधं बडिशबन्धकः चर्मकृता पाषाणसर्जनी च।। __ आङः कृहशुषेः सनः // 643 // आङः परेभ्यो डुकुंग करणे, हंग् हरणे शुपंच शोषणे इत्येतेभ्यः सन्नन्तेभ्योऽणिः प्रत्ययः स्यात् / आचिकीर्षणिः व्यवसायः। आजिहीर्षणिः श्रीः / आशुशुक्षणिः अग्निः वायुश्च।। ___ वारिसादरािणक् // 644 // एभ्यः किदिणिः प्रत्ययः स्यात् / वृग्ट वरणे ण्यन्तः / वारिणिः पशुः पशुत्तिश्च / सं गतौ / सिणिः अग्निः वज्रं च / आदिग्रहणादन्येऽपि / अदेस्त्रीणिः // 645 // अदक् भक्षणे इत्यस्मात् त्रीणिः प्रत्ययः स्यात् / अत्रीणिः कृमिजातिः। प्लुज्ञायजिषपिपदिवसितसिभ्यस्तिः // 646 // एभ्यस्तिः प्रत्ययः स्यात् / प्लुङ् गतौ / प्लोतिः चीरम् / ज्ञांश् अवबोधने / ज्ञायते त्रैलोक्यस्य त्रातेति ज्ञातिः इक्ष्वाकुवभः स्वजनश्च / यजी देवपूजादौ / यष्टिः दण्डः लता च / षप समवाये / सप्तिः अश्वः / पदिच् गतौ / पत्तिः पदातिः। वसं निवासे / वस्तिः मूत्राधारः चर्मपुटः स्नेहोपकरणं च / तसूच उपक्षये विपूर्वः / वितस्तिः अर्धहस्तः। प्रथेलुक च वा // 647 // प्रथिष् प्रख्यान इत्यस्मात् तिः प्रत्ययोऽन्तस्य च 104
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy