________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 823 पादाचात्यजिभ्याम् // 620 // पादशब्दपूर्वाभ्यां केवलाभ्यां चाऽत्यजिभ्यां णिदिः प्रत्ययः स्यात् / अत सातत्यगमने। अज क्षेपणे च / पादाभ्यामतत्यजति वा पदातिः पदाजिः। 'पदः पादस्याज्यातिगोपहते ' इति पदभावः / उभावपि पत्तिवाचिनौ / आतिः पक्षी / सुपूर्वात् स्वातिः वायव्यनक्षत्रम् / आजिः संग्रामः स्पर्धावधिश्च / नहेर्भ च ॥६२१॥णहींच् बन्धने इत्यस्माणिदिः प्रत्ययो भकारश्चान्तादेशः। नाभिः अन्त्यकुलकरः चक्रमध्यं शरीरावयवश्च / ___ अशोरश्वादिः // 622 // अशौटि व्याप्तावित्यस्माणिदिः प्रत्ययो रेफश्च धातोरादिः स्यात् / राशिः समूहः नक्षत्रपादनवकरूपश्च मेषादिः / कायः किरिच वा ॥६२३॥कै शब्दे इत्यस्मात् किः प्रत्ययः इकारश्चान्तादेशो वा / किकिः पक्षी विद्वाँश्च / काकिः स्वरदोषः / वर्द्धरकिः // 624 // वर्धण छेदनपूरणयोरित्यस्मादकिः प्रत्ययः स्यात् / वर्द्धकिः तक्षा / सनेर्डखिः // 625 // षणयी दान इत्यस्मात् डिदखिः प्रत्ययः स्यात् / सखा मित्रम् / कोडिखिः // 626 // कुंक शन्दे इत्यस्मात् डिदिखिः प्रत्ययः स्यात् / किखिः लोमसिका। मृश्चिकण्यणिध्यविभ्य ईचिः // 627 // एभ्य ईचिः प्रत्ययः स्यात् / मुंत् प्राणत्यागे। मरीचिः मुनिः मयूखश्च / वोश्वि गतिद्धयोः। श्वयीचिः चन्द्रः श्वयथुश्च / कण अण शब्दे / कणीचिः प्राणी लता चक्षुः शकटं शङ्खश्च / अणीचिः वेणुः शाकटिकश्च / दधि धारणे / दधीचिः राजर्षिः। अव रक्षणादौ / अवीचिः नरकविशेषः। वेगो डित् // 628 // वेंग तन्तुसंताने इत्यस्मात् डिदिचिः प्रत्ययः स्यात् / वीचिः ऊर्मिः। वर्णित् ॥६२९॥वण शब्दे इत्यस्मात् णिदीचिः प्रत्ययः स्यात् / वाणीचिः छाया व्याधिश्च / कृपिशकिभ्यामटिः // 630 // आभ्यामटिः प्रत्ययः स्यात् / कृपौङ् साम. र्थे / कर्मटिः निस्वः / शकुंट शक्तौ / शकटिः शकटः /