SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [कृदन्ते विशेषः / गडु वदनैकदेशे / गण्डोलः कृमिविशेषः / शक्लंट शक्तौ / शकोलः शक्तः / कपिः सौत्रः / कपोल: गण्डः। चह कल्कने / चहोलः उपद्रवः / __ ग्रह्याङ्ग्यः कित् // 494 // ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययः स्यात् / ग्रहीश् उपादाने / गृहोलः बालिशः / कायतेः कोलः बदरी वराहश्च / गायतेः गोलः वृत्ताकृतिः। गोला गोदावरी बालरमणकाष्ठं च / पातेः पोला तालाख्यं कपाटबन्धनं परिखा च / लातेः लोलः चपलः / ददातेर्दयतेधतेर्वा दोला मेकणम् / पिछोलकल्लोलकक्कोलमकोलादयः // 495 // पिञ्छोलादयः शब्दा ओळप्रत्ययान्ता निपात्यन्ते / पीडेः पिळ च / पिछोलः वादित्रविशेषः / कलेोऽन्तश्च / कल्लोल ऊर्मिः / कचिमच्योः कादिः / ककोली लताविशेषः / मक्कोलः सुधाविशेषः / आदिग्रहणादन्येऽपि / वलिपुषेः कलक् // 496 // आभ्यां कित् कलः प्रत्ययः स्यात् / वलि संवरणे। वल्कलं तरुत्वक् / पुष पुष्टौ / पुष्कलं समग्रं युद्धं शोभनं हिरण्यं धान्यं च / मिगः खलश्चैच्च // 497 // डुमिंग्ट् प्रेक्षणे इत्यस्मात् खलश्चकारात् कलश्च प्रत्यय एकारश्चान्तादेशः स्यात् / मेखला गिरिनितम्बः रशना च / मेकलः नर्मदाप्रभवोऽद्रिः / मिग एखवचनमाखबाधनार्थम् / नो नोऽन्तो ह्रस्वश्च // 498 // शृश् हिंसायामित्यस्मात् खलः प्रत्ययो नकारोऽन्तो इस्वश्च स्यात् / शृङ्खला लोहरज्जुः / शृङ्खलः शृङ्खलं बा। शमिकमिपलिभ्यो बलः // 499 // एभ्यो बलः प्रत्ययः स्यात् / शम्बलं पाथेयम् / कमूङ् कान्तौ / कम्बलः ऊर्णापटः / पल गतौ / पल्वलम् अकृत्रिमोदकस्थानविशेषः / तुल्वलेल्वलादयः॥५००॥ तुल्वलादयः शन्दा वलप्रत्ययान्ता निपात्यन्ते / तुलील्योणिलुग्गुणाभावश्च / तुल्वल; ऋषिः, यस्य तौल्वलिः पुत्रः / इल्वलः असुरो योऽगस्त्येन जग्धः मत्स्यः यूपश्च / इल्वलाः तिस्रो मृगशिरःशिरस्ताराः। आदिग्रहणात् शाल्बलादयो भवन्ति / शीडस्तलक्पालवालणवलण्वलाः // 501 // शीडक स्वप्ने इत्यस्मात्तलक्पालवालण्वलण्वल इत्येते प्रत्ययाः स्युः / शीतलमनुष्णम् / शेपालम् / जपादिसात् पस्य क्त्वे शेवालम् , शैवालम् , शैवलम् , शेवलम् , पञ्चकमपि जलमलवाचि /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy