________________ [ कृदन्ते 800 सिद्धहैमबृहत्मक्रिया. कृन्तादेशः / कृन्तत्रः मशकः / कृन्तत्रं छेदनं लाङ्गलाग्रं च / बन्धिवहिकट्यश्यादिभ्य इत्रः // 459 // एभ्य इत्रः प्रत्ययः स्यात् / बन्धंश बन्धने / बन्धित्रं मन्थः। वहीं प्रापणे / वहितं वाहनं वहनं च / कटे वर्षावरणयोः / कटित्रं लेख्यचर्म / अशौटि व्याप्ती अशथ भोजने वा। अशित्रं रश्मिः हविः अग्निः अन्नपानं च / आदिग्रहणात् लुनातेः लवित्रं कर्मद्रव्यम् / पुनातेः पवित्रं मङ्गल्यम् / भटतेः भटित्रं शूले पकमांसम् / कडतेः कडिनं कटित्रमेव / अमतेः अमित्रारिपुः इत्यादि / भूगवदिचरिभ्यो णित् // 460 // एभ्यो णिदित्रः प्रत्ययः स्यात् / भू सत्तायाम् / भावित्रं त्रैलोक्यं निधानं भद्रं च / गृत् निगरणे / गारित्रं नमः अन्नपानम् आश्चर्य च / वद व्यक्तायां वाचि / वादित्रम् आतोद्यम् / चर भक्षणे च / चारित्रं वृत्तं स्थित्यभेदश्च। तनितृलापात्रादिभ्य उत्रः॥ 461 // एभ्य उत्रः प्रत्ययः स्यात् / तनयी विस्तारे / तनुत्रं कवचम् / त प्लवनतरणयोः। तरुत्रं प्लवः घासहारी च / लांक आदाने / लोत्रम् अपहृतद्रव्यम् / पां पाने / पोत्रं हलमूकरयोर्मुखम् / त्रैङ् पालने / त्रोत्रमभयक्रिया / आदिग्रहणात् वृणोतेः वरुत्रम् अभिप्रेतमित्यादयः / शामाश्याशक्यम्ब्यमिभ्यो लः // 462 // एभ्यो लः प्रत्ययः स्यात् / शोंच तक्षणे। शाला सभा। मांक माने / माला सक् / श्यङ् गतौ / श्यालः पत्नीभ्राता। शक्लंट शक्तौ / शक्लः मनोज्ञदर्शनः मधुरवाक् शक्तश्च / अबुङ शब्दे, अम गतौ / अम्ब्लः अम्लश्च रसः।। शुकशीमूभ्यः कित् // 463 // एभ्यः किन लः प्रत्ययः स्यात् / शुक गतौ। शुक्लः सितो वर्णः। शीक स्वप्ने / शीलं स्वभावःव्रतं धर्मः समाधिश्च / मूङ् बन्धने। मूलम् वृक्षपादावयवः आदिः हेतुश्च / भिल्लाच्छभल्लसौविदल्लादयः // 464 // भिल्लादयः शब्दाः किल्लप्रत्ययान्ता निपात्यन्ते / भिदेर्लश्च / भिल्लः अन्त्यजातिः / अच्छपूर्वात् भलेः अच्छभल्लः ऋक्षः / सुपूर्वाद् विदेरलोऽन्तः सोश्च दृद्धिः / सौविदल्लः कञ्चुकी। आदिग्रहणादल्लपल्लीरल्लादयोऽपि भवन्ति / मृदिकन्दिकुण्डिमण्डिमणिपटिपाटिशकिकेटदेवृकमियमिशलिकलिपलिगुध्वश्चिचश्चिचपिवहिदिहिकुहितृमृपिशितुसिकुस्यनिद्रमेरलः //