________________ 783 उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. कुलेडू च वा // 362 // कुल बन्धुसंस्त्यानयोरित्यस्मात् कियः प्रत्ययो डकारश्चान्तादेशो वा / कुड्यं भित्तिः / कुल्या सारणी / अगपुलाभ्यां स्तम्भडित् // 363 // अग पुल इत्येताभ्यां परस्मात् स्तम्भेः सौत्रात् डियः प्रत्ययः स्यात् / अगस्त्यः पुलस्त्यश्च ऋषिः। शिक्यास्यास्यमध्यविन्ध्यधिष्ण्याघ्न्यहर्म्यसत्यनित्यादयः // 364 // एते यप्रत्ययान्ता निपात्यन्ते। शोंच तक्षणे इकश्चान्तः। शिक्यं लम्बमानः पिठ-द्याधारः परिवाड्भिक्षाभाजनस्थानम् असारं च। अमूच क्षेपणे दीर्घत्वं च / आस्य मुखम् / आपूर्वाद् ढौकतेर्डिच्च / आन्यः धनवान् / मव बन्धने ध् च / मध्यं गर्भः। विधत् विधाने स्वरान्नोऽन्तश्च / विन्ध्यः पर्वतः / बिधृषाट् प्रागल्भ्ये णोऽन्तो विष च / धिष्ण्यं भवनम् आसनं च / धिष्ण्या उल्का / नपूर्वाद् हन्तेरुपान्त्यलोपश्च / अध्न्यो धर्मः गोपतिश्च / अघ्न्या गौः। हरतेर्मोऽन्तश्च / हर्म्य सौधम् / अस्तेः सत् च / सत्यम् अमृषा / निपूर्वाधमेस्तोऽन्तो धातुलुक् च / नित्यं ध्रुवम् / आदिग्रहणाल्लह्यद्रुह्यादयो भवन्ति / कुगुवलिमलिकणितन्याम्यक्षेरयः // 366 // एभ्योऽयः प्रत्ययः स्यात् / कुंक् शब्दे / कवयः ऋषिः पुरोडाशश्च / गुंङ् शब्दे / गवयः गवाकृतिः पशुविशेषः। वलि संवरणे / वलयः कटकः / मलि धारणे / मलयः पर्वतः / कण शब्दे / कणयः आयुधविशेषः / तनूयी विस्तारे / तनयः पुत्रः / अमण रागे णिचि च / आमयः व्याधिः / अक्षौ व्याप्तौ / अक्षयः विष्णुः। चायेः केक् च // 366 // चायग् पूजानिशामनयोः इत्यस्मात् अयः प्रत्ययोऽस्य च केक् इत्यादेशः / केकयः क्षत्रियः / लादिभ्यः कित् / / 367 // लादिभ्यः किदयः प्रत्ययः स्यात् / लांक आदाने / लयः / पां पाने / पयः / ष्णांक शौचे / स्नयः / देंङ् पालने / दयः / ट्वें पाने / धयः / में प्रतिदाने / मयः / के शब्दे / कयः / बैं खदने / खयः / 2 पाके / श्रयः। सँ मैं मैं क्षये / क्षयः / जयः / सयः। 3ङ पालने / त्रयः / ओर्फे शोषणे / वयः / इत्यादि। कसेरलादिरिच्चास्य // 368 // कस गतावित्यस्मादलादिरयः प्रत्ययोऽकारस्य चेकारः। किसलयं प्रवालम् / वृङः शषौ चान्तौ // 369 // तृङ्ग संभक्तावित्यस्मात् किदयः प्रत्ययः