________________ 742 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते स्यमीका कृमिजातिः / कष हिंसायाम् / कषीका कुद्दालिका / दुषंच वैकृत्ये ण्यन्तः। दूषीका नेत्रमलः वीरणजातिः वतिः लता च / अनक् प्राणने / अनीकं सेनासमूहः संग्रामश्च / मनिच ज्ञाने / मनीकः सूक्ष्मः। मलि धारणे / मलीकम् अञ्जनम् अरिश्च। वलि संवरणे। वलीकः बलवान् पटलान्तश्च / वलीकं वेश्मदारु / अली भूषणादौ / अलीकम् असत्यम् / अलीका पण्यस्त्री। व्यलीकमपराधः। व्यलीका लज्जा / पलण रक्षणे च / पालीकं तेजः। कण शब्दे / कणीकः पटवासः। कणीका भिन्नतण्डुलावयवः वनस्पतिबीजं च / . जृपदृशृवृमृभ्यो देरश्चादौ // 47 // एभ्य ईकः प्रत्ययः स्यात् द्वे च रूपे स्त एषां चादौ रः / श्च जरसि / जर्जरीका शतपत्री / पृश् पालनपूरणयोः। पर्परीका जलाशयः सूर्यश्च / पर्परीकः अग्निः कुररः भक्ष्यं कुर्कुरश्च / दृश् विदारणे / दर्दरीकः दाडिमः इन्द्रः वादिनविशेषः वादिनभाण्डं च / शृश् हिंसायाम् / शर्शरीकः कृमिः विकलेन्द्रियः दुष्टाश्वः लावकश्च / शशरीका माङ्गल्याभरणम् / वृग्ट वरणे। वर्वरीकः संवरणम् उरणः पतत्री केशसंघातश्च। वर्वरीका सरस्वती। मृत् प्राणत्यागे। मर्मरीक; अग्निः शूरः श्येनश्च / ऋच्य॒जिहृषीषिदृशिमृडिशिलिनिलीभ्यःकित्॥४८॥ एभ्यः किदीकः प्रत्ययः स्यात् / ऋचत् स्तुतौ / ऋचीकः / ऋजि गतिस्थानार्जनोपार्जनेषु / ऋजीकं वजं बलं स्थानं च / हृषू अलीके, हृषच् तुष्टौ वा / हृषीकमिन्द्रियम् / इपत् इच्छायाम् , ईष उच्छे, ईष गतिहिंसादर्शनेषु वा / इषीका ईपीका च तृणशलाका / दृशं प्रेक्षणे / दृशीकं मनोज्ञम् / दृषीका रजस्वला / मृडत् सुखने / मृडीकं मुखकृत् मुखं च / शिलत् उछे। शिलीकः सस्यविशेषः। लीच् श्लेषणे निपूर्वः। निलीकं वृत्तम् / बाहुलकादीलुक् / मृदेवोऽन्तश्च वा // 49 // मृदेः किदीकः प्रत्ययः स्यात् वकारश्चान्तः / मृदश् क्षोदे / मृद्विका मृदीका च द्राक्षा / मृणीकास्तीकप्रतीकपूतीकसमीकवाहीकवाहीकवल्मीककल्मलीकतिन्तिडीककङ्कणीककिङ्किणीकपुण्डरीकचश्चरीकफर्फरीकझर्झरीकर्घघरीकादयः // 50 // एते किदीकपत्ययान्ता निपात्यन्ते / सर्तेोऽन्तश्च / मृणीकः वायुः अमिः अशनिः उन्मत्तश्च / सृणीका लाला। अस्तेस्तोऽन्तश्च /