SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया [स्वरान्तस्त्रीलिङ्ग संबोधने नित्यदिदिति इस्वः / हे अम्ब / हे अक्क / हे अल्ल / एवं हे अत्त / हे अनम्ब / हे परमाम्ब / हे प्रियाम्ब / नित्यदिदित्यत्र अम्बार्थानां द्विस्वरेति विशेषणान्नेह / हे अम्बाडे / हे अम्बाले / हे अम्बिके / जरा / जरसौ / जरे इत्यादि स्वरादौ वा जरस् / पक्षे व्यंजनादौ च गङ्गावत् / नासिका / नासिके / नासिकाः। नासिकाम् / नासिके। शसादौ दन्तपादेति नासिकाया वा नस् / नसः। नासिकाः नसा / नोभ्याम् / इत्यादि / पक्षे गङ्गावत् / निशाया मासनिशेत्यन्तलकि निशः। निशा / यजमृजेति षत्वविधायके सूत्रे यजादिधातुसाहचर्यात शकारस्यापि धातोः संबंधिन एव ग्रहणादिह (भ्यामि) न पत्वमिति धुटस्तृतीय इत्यनेन जकारे / निज्भ्याम् / सुपि तु जकारस्य प्रथमत्वे सस्य शषाविति सुपः सकारस्य शत्वे प्रथमादघुटीति छत्वे च निच्छु इत्यादि / पक्षे गङ्गावत् / १पृतनाशब्दस्य गङ्गावद्रूपाणि / गोपाः कीलालपावत् / बुद्धिः प्रायो मुनिवत् / शसि स्त्रीत्वान्नत्वाभावः / बुद्धीः। नात्वमपि न / बुद्धया। 262 स्त्रियां डितां वा दै दास् दास् दाम् // 1 / 4 / 28 // स्त्रीलिङ्गादिदुदन्ताच्छब्दात् परेषां तत्संबंधिनामन्यसंबंधिनां वा स्यादेर्डितां यथासंख्यं दै दास दास दाम् इत्येते आदेशा वा स्युः / दकारोऽन्यत्र विशेषणार्थः / बुद्धयै / बुद्धये। बुद्धयाः 2 / बुद्धेः 2 / बुद्धयाम् / बुद्धौ / एवं प्रियबुद्धयै, प्रियबुद्धये / अत्र समासार्थस्य पुरुषत्वेऽपि बुद्धिशब्दस्य स्त्रीत्वमस्तीति भवत्येव / अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति, तन्मते मियबुद्धये / अन्यस्तु पुरुषस्यैव समासार्थत्वे सति इच्छति न स्त्रियाः, तन्मते प्रियबुद्धयै पुरुषायेत्यत्रैव भवति, नतु प्रियबुद्धये स्त्रियै इत्यत्र / एवं मत्यादयः।। 263 त्रिचतुरस्तमृचतम स्यादौ // 2 / 1 / 1 // त्रि चतुर इत्येतयोः स्त्रीलिङ्गे वर्तमानयोस्तत्संबंधिन्यन्यसंबंधिनि वा स्यादौ विभक्तौ तिस चतस इत्येतावादेशौ स्याताम् / 264 ऋतो र स्वरेऽनि // 21 // 2 // तिसृचतसृसंबंधिन ऋकारस्य स्थाने तत्संबंधिन्यन्यसंबंधिनि वा स्वरादौ परतो रादेशः स्यात, अनि-नकारविषयादन्यत्र / समानदीर्घत्वाईरामपवादः। तिस्रः२।तिमृभिः।तिसृभ्यः 2 ।आमि नाम्। तिमृणाम्। __ 1 पृतनाशब्दस्य शसादौ वा पृत् आदेश इत्येवंमते पृतः, पृता, पृझ्यामित्याद्यपि भवति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy