SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्प्रक्रिया. [स्वरान्तपुंल्लिङ्ग 253 नुर्वा // 14 // 48 // नृशब्दसंबंधिनः समानस्य नामि परे दी| वा स्यात् / नृणाम् / नृणाम् / अतिनृणाम् / अतिनृणाम् / इति ऋकारान्ताः / कृ तृ अनयोरनुकरणे ' प्रकृतिवदनुकरणम् ' इति वैकल्पिकातिदेशाद् ‘ऋतां क्ङितीर्' इत्यनेनेा 'पदान्त' इत्यनेन दीर्घ च कीः। किरौ। किरः।तीः। तिरौ। तिरः इत्यादि गीर्वत् / इरभावपक्षे तु ऋदुशन इत्यत्र अ. चेत्यत्र च तपरकरणान्न डारौ। कृः / क्रौ / क्रः / कृम् / क्रौ / कृन् / इत्यादि / इति ऋकारान्ताः। ___गम्ल शक्ल अनयोरनुकरणे ऋकारकार्य लकारेऽपि भवतीति सेर्डा / गमा। शका / अविषये च लत्वम् / गमलौ / शकलौ / ङसिङसोर्गमुल शकुल् / इति लकारान्ताः / दीर्घलकारान्ता अप्रसिद्धाः। एकारान्त अतिहेशब्दः / अतिहेः / स्वरादावयादेशः। अतिहयौ / संबोधनेऽदेतः स्यमोरिति सिलुपि हे अतिहे / ऐकारान्तो रैशब्दः। 254 आ रायो व्यंजने // 2 // 15 // स्वसंबंधिन्यन्यसंबंधिनि वा व्यंजनादौ स्यादौ परे रैशब्दस्याकारान्तादेशः स्यात् / राः। स्वरादावायादेशः। रायौ / रायः। राभ्याम् / राभिः / रासु / हे राः / एवं अतिराः। अतिराभ्याम् / अतिरासु / व्यंजन इति किम् / रायौ / स्यादावित्येव / रैसूत्रम् ।स्भीत्येव सिद्ध व्यंजनग्रहणमुत्तरार्थम् / ओकारान्तो गोशब्दः। 255 ओत औः // 1 / 4 / 74 // ओकारस्य ओत एव विहिते घुटि परे औकार आदेशः स्यात् / गौः / गावौ / गावः / ओत इति किम् / चित्रा गौर्यस्य सः चित्रगुः / चित्रगू / विहितविशेषणादिह न भवति / हे चित्रगवः / घुटीत्येव / गवा। __ 256 आ अम्शसोऽता // 1 / 4 / 75 // ओकारस्याम्शसोरकारेण सह आकारः स्यात् / गाम् / गावौ / गाः / स्यादावित्येव / अचिनवम् / गवा / गोभ्याम् / एदोद्भ्यां ङसिङसोर इति रत्वे गोः 2 / गवाम् / गोषु / एवं मुद्यौः / सुद्यावौ / सुद्याव इत्यादि। इत्योकारान्ताः / औकारान्तो ग्लौशब्दः। ग्लौः / ग्लावौ / ग्लावः / ग्लावम् / ग्लावः इत्यादि / एवं सुनौप्रभृतयः / इत्यौकारान्ताः। इति श्रीसिद्धहैमबृहत्पक्रियायां स्वरान्तपुंल्लिङ्गप्रकरणम् समाप्तम् //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy