SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ 546 सिद्धहैमबृहत्पक्रिया. [आख्यातपकरणे 282 स्वरादेर्दितीयः // 4 // 14 // स्वरादेर्धातोर्विचनभाजो द्वितीयांश एकस्वरो द्विः स्यान्न त्वाद्यः। प्राक्तु स्वरे स्वरविधेरित्येव / 283 अयि रः // 41 // 6 // स्वरादेर्धातोद्वितीयस्यावयवस्यैकस्वरस्य रेफः संयोगादिनि स्यात् 'अयि ' रेफात्पर आनन्तर्येण यकारश्चेन्न भवति / णत्वस्यासिद्धत्वान्नुशब्दस्य द्वित्वम् / अणुनाव / अणुनुवतुः। ऊर्जुनुवुः / ऊर्गुनुविथ / ऊर्जुनविथ / ऊयात् / अणुविषीष्ट / ऊर्णविषीष्ट / ऊर्णविता / ऊर्णविता / ऊर्णविष्यति / ऊर्णविष्यति / औMविष्यत् / और्णविष्यत् / ष्टुंग्छ स्तुतौ // 2 // स्तौति / स्तवीति / स्तुतः / स्तुवन्ति / - 284 उपसर्गात् सुरसुवसोस्तुस्तुभोऽटयप्यद्वित्वे // 2 // 3 // 39 // अद्वित्वे द्विवचनाभावे सति सुनोतिसुवतिस्यतिस्तौतिस्तोभतीनां सकारस्योपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य षः स्यात् अट्यपि-अडागमेऽपि सति। अड्व्यवधानेऽपीत्यर्थः / अभिष्टौति / परिष्टौति / पूजायां सोः पूजातिक्रमयोश्चातेरुपसर्गत्वाभावादिह न भवति / सुस्तुतम् / येन धातुना युक्ताः पादयस्तमेव प्रत्युपसर्गसंज्ञा इति धात्वन्तरयोगे न भवति / 'स्तुस्वञ्जश्चाटि नवा' इति वैकल्पिके षत्वे पर्यस्तोत् / पर्यष्टौत् / अस्तवीत् / 'धूग्सुस्तोः परस्मै' इतीडागमे अस्तावीत् / अस्ताविष्टाम् / अस्तोष्ट / तुष्टाव / तुष्टुवतुः। तुष्टुवुः / तुष्टोथ / तुष्टुव / तुष्टुम / स्तोता। स्तोष्यति / बंग्क् व्यक्तायां वाचि // 3 // 285 ब्रूगः पश्चानां पञ्चाहश्च // 4 / 2 / 118 // ब्रूगः पेरषां तिवादीनां पश्चानां स्थाने यथासंख्यं पञ्च णवादय आदेशा वा स्युः, तत्संनियोगे ब्रूग आह इत्यादेशश्च। आह / आहतुः। आहुः। 'नहाहोर्धतावि ' ति हकारस्य तकारः। आत्थ / आहथुः / पक्षे। 286 ब्रूतः परादिः॥४।३।६३॥ ब्रुव ऊत् ब्रूत्, ब्रूतेरूकारात्परो व्यञ्जनादौ विति प्रत्यये परे ईत् स्यात् स च परादिः-परावयवः। ब्रवीति / ब्रतः। ब्रुवन्ति / ब्रवीषि। ब्रूथः / ब्रूथ / ब्रवीमि / ब्रूवः / ब्रूमः / ऊत इति किम् / आत्थ / ब्रूते / ब्रूयात् / ब्रुवीत / ब्रवीतु / ब्रूहि / ब्रवाणि / ब्रूताम् / अब्रवीत् / अब्रवम् / अब्रूत / अस्तित्रुवोरिति वचादेशे अवोचत् / अवोचत / उवाच / ऊचे। उच्यात् / वक्षीष्ट / वक्ता /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy