________________ 530 सिद्धहैमबृहत्पक्रिया. [आख्यातमकरणे 213 वृत्सकृत् // 4 / 1 / 102 // धातोर्खत् सकृदेकवारमेव स्यात् / यावसंभवस्तावद्विधिरिति न्यायात् पुनःमाप्तं प्रतिषिध्यते / इति न भवति / ववुः। ऊवुः। द्वित्वे कृते परखाद्धातोरुवादेशे सति पश्चात् पूर्वस्य समानस्य दीर्घः। अय इति किम् / ऊयतुः / वविथ / ववाथ / ऊये / ऊवे / ऊयात / वासीष्ट / वाता। वास्यति / वास्यते ।व्येग संवरणे // 3 // व्ययति / अव्यासीत् / व्ययते / अव्यास्त / 214 व्यस्थवणवि // 4 // 2 // 3 // व्ययतेस्थवि णवि च विषयभूते आकारो न स्यात् / द्वित्वे / 215 ज्याव्येव्यधिव्यचिव्यथेरिः // 4171 // एषां परोक्षायां द्वित्वे सति पूर्वस्येकारः स्यात् / नामिनोऽकलिहलीति वृद्धौ विव्याय / विव्यतुः। विव्युः। केचित्तु परोक्षामात्रे आखप्रतिषेधमिच्छन्तो व्येगो वृद्विधि विकल्पयन्ति त्वक्त्रैः संविव्ययुर्देहान् इति सिद्धम् / तदपरे पाठभ्रम एवायमिति मन्यन्ते / त्वक्त्रैः संविन्युरङ्गानि इति तु सम्यक्पाठः / एवं 'संविव्ययुर्वसनचारु चमूसमुत्थं पृथ्वीरजः करभकण्ठकडारमाशाः' इत्यत्रापि 'संविव्युरम्बरविकासि चमूसमुत्थम् ' इति सत्पाठः। थवि 'ऋव्येऽद ' इत्यनेन नित्यमिट् / विव्ययिथ / विव्ये / यजादिववेरिति बीयात् / व्यासीष्ट / व्याता / व्यास्यति / व्यास्यते / डेंग् स्पर्दाशब्दयोः // 4 // आह्वयति / आह्वयते। ___ 216 हालिसिचः // 3 / 4 / 62 // एभ्यः कर्तर्यद्यतन्यामङ् प्रत्ययः स्यात् / आइत् / आह्वताम् / आह्वन् / 217 वात्मने // 4 / 63 // हादिभ्यः कर्तर्यद्यतन्यामात्मनेपदे परे वाङ् स्यात् / आवत / आहेताम् / आन्त / आह्वास्त / आह्वासाताम् / 218 द्वित्वे वः // 4 / 1 / 87 // वयतेद्वित्वविषये सस्वरान्तस्था वृत् स्यात् / हु हु इति द्वित्वे आजुहाव / धातोरिवर्णावर्णेत्युवादेशे आजुहुवतुः / आजुहविथ / आजुहोथ / जुहुवे / अनेनैव सिद्धे 'गौडसनीति सूत्रकरणं णेरन्यस्मिन् द्वित्वनिमित्तप्रत्ययव्यवधायके वृन्मा भूदित्येवमर्थम् / तेनेह न भवति / हायकमिच्छति हायकीयति / ततः सन् / जिह्वायकीयिषति / दुवीं बीजसन्ताने ॥५॥वपति। वपते। अवाप्सीत् / अवप्त। ऊवाप। ऊपतुः। ऊपे। उप्यात् / वप्सीष्ट। वप्ता।