SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. पटापटा करोति / पटापटा भवति / पटापटा स्यात् / दमत् करोति। दमदमा करोति / दमदमा भवति / दमदमा स्यात् / एवं मसत् करोति / मसमसा करोति। खरटत् करोति / खरटखरटा करोति / अव्यक्तवर्णस्यापि 1 कथंचिद् ध्वनिमात्रसादृश्यात् व्यक्तवर्णमनुकरणं भवति / अव्यक्तानुकरणादिति किम् / दृषत्करोति / अत्र व्यक्तवर्णमनुकार्यम् / अनेकस्वरादिति किम् / श्रत्करोति / कृभ्वस्तिनेति किम्। पटज्जायते / अनिताविति किम् / पदिति करोति / 2203 बह्वल्पार्थात् कारकादिष्टानिष्टे पशस् // 7 // 2 / 150 // बह्वदिल्पार्थाच कारकाभिधायिनो नाम्नः प्रशस् प्रत्ययो वा स्यात् यथासंख्यमिष्टेऽनिष्टे च विषये / इष्टं पाशित्रादि / अनिष्टं श्राद्धादि। ग्रामे बहवो वहुशो वा ददति / एवं भूरिशः। प्रभूतशः / गणशः / अल्पार्थ-अल्प आगच्छति। अल्पश आगच्छति। अल्पं धनं ददाति / अल्पशो धनं ददाति / श्राद्धे अल्पैर्भुक्तम् / अल्पशो भुक्तम् / अल्पेभ्यो ददाति। अल्पशो ददाति। अल्पेभ्य आगतम्। अल्पश आगतम् / अल्पेषु वसति / अल्पशो वसति / एवं स्तोकशः। कतिपयशः। बह्वल्पार्थादिति किम् / गां ददाति / अश्वं ददाति / कारकादिति किम् / बहूनां खामी। इष्टानिष्ट इति किम् / बहु ददाति श्राद्धे / अल्पं ददाति पाशित्रादौ / पकारः पित्कार्यार्थः / 2204 संख्यैकार्थाद्वीप्सायां शस् // 7 / 2 / 151 // संख्यावाचिन एकलविशिष्टार्थवाचिनश्च कारकाभिधायिनो नाम्नो वीप्सायां द्योत्यायां शस् प्रत्यय; स्यात् / वीप्सायां द्विवचनस्य प्राप्तौ तदपवादोऽयम् / वाधिकारात् पक्षे द्विर्वचनपि भवति / एकैकम् एकशो वा ददाति / द्वौ द्वौ वा द्विशः। एवं त्रिशः। तावच्छः / कतिशः। गणशः। एकैकेन दीयते एकशो दीयते / द्वाभ्यां द्वाभ्यां द्विशः / त्रिशः। तावच्छः / एवं कतिशः / गणशः। एकार्थ-माषं मापं माषशो वा देहि / कार्षापणशः। पणशः। पादशः। पलशः / प्रस्थशः। अर्धशः / पर्वशः / तिलशः। संघशः। पूगशः। वृन्दशः। पङ्क्तिशः। वनशः प्रविशति / कूपीशः खनति / कुम्भीशः कलशीशो ददाति। क्रमश इति क्रमवतामभेदात क्रमेण क्रमेणेति वीप्सा भवति / संख्यैकार्थादिति किम् / माषौ माषौ ददाति / वीप्सायामिति किम् / द्वौ - 1 अथ पटदिति व्यक्तवर्णमव्यक्तवर्णस्य कथमनुकरणमनुकरणस्यानुकार्यसदृशत्वादन्यथातिप्रसङ्गः स्यादित्याह-कथंचिदिति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy