________________ सिद्धहैमबृहत्मक्रिया [ रेफसन्धि छत्रम् / अनाङ्माङ इति किम् / आच्छाया। माच्छिदत् / अत्र ' स्वरेभ्यः' इति नित्यमेव / डित्करणादेषु विकल्प एव-आच्छायां मन्यसे, आ छायां मन्यसे / वाक्यस्मरणयोरयमाकारः / माच्छिन्धि / माछिन्धि / आङ्साहचर्येणाव्ययस्य माङो ग्रहणादिहापि विकल्प एव / प्रमिमीते इति प्रमाः, विच् / प्रमाच्छात्रः।प्रमाछात्रः। दीर्घादिति किम् / श्वेतच्छत्रम् / पदान्त इत्येव / हीच्छति / 141 प्लुताबा // 1 // 3 // 29 // पदान्ते वर्तमानात् दीर्घस्थानात् प्लुतात् परस्य छस्य द्वे वा स्तः / आगच्छ भो इन्द्रभूते 3 च्छत्रमानय / आगच्छ भो इन्द्रभूते 3 छत्रमानय / दीर्घादित्येव / आगच्छ भो देवदत्त 3 छत्रमानय / / 142 न संधिः // 1 // 3 // 52 // उक्तो वक्ष्यमाणश्च विरामे संधिर्न स्यात् / दधि अत्र / ते आहुः / तत् लुनाति / भवान् लुनाति / कुर्वन् शेते / वृक्षस्य छाया / ब्राह्मणस्य छत्रम् / भवान् छादयति / नृन् पाहि / कुण्डम् हसति / वृक्ष याति / कुर्वन् आस्ते / विरामादन्यत्र संहितायां संधिरेव / सा च 'संहितैकपदे नित्या नित्या धातूपसर्गयोः / नित्या समासे वाक्ये तु सा विवक्षामपेक्षते // इति श्रीसिद्धहैमबृहत्मक्रियायां व्यंजनसंधिप्रकरणम् समाप्तम् // ॥अथ रेफसंधिप्रकरणम् // कस् शेते इति स्थिते 143 सो रुः // 21 / 72 // पदांते वर्तमानस्य सस्य रुरादेशः स्यात् / इत्यनेन रुत्वे- . 144 शषसे शषसं वा // 1 // 36 // पदांते वर्तमानस्य रेफस्य शपसेषु परेषु यथासंख्यं शषस इत्येते आदेशा वा स्युः / कश्शेते / पक्षे 'रः पदान्ते' इत्यनेन विसर्गः / कः शेते / एवम्-कष्षण्डः। कः षण्डः। कस्साधुः / कः साधुः / कथं गीर्षु, धूर्षु / अरो रेफस्य सुपि रेफो वक्ष्यते / कारशकार इत्यादिषु त्वघोषे शिट्परे विसर्जनीयस्य विधानाद् रेफ एव नास्तीति न भवति / एवं पूर्वोत्तरयोरपि योगयोर्द्रष्टव्यम् / वासः क्षौमम् / अद्भिः प्सातम् / असेः समः / नवाधिकारे वाग्रहणं उत्तरत्र विकल्पनिवृत्त्यर्थम् /