________________ 296 सिद्धहैमबृहत्प्रक्रिया. [तद्धित रिति चेत् तहीदमेव ज्ञापकं सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधेः। तेन सुपाञ्चालक इत्यादि सिद्धम् / 1437 उदग्ग्रामाद्यकृल्लोम्नः // 6 // 3 // 25 // उदग्ग्रामवाचिनो यकृलोमन्शद्धाच्छेषेऽर्थेऽञ् प्रत्ययः स्यात् / याकृल्लोमः। उदग्ग्रामादिति किम् / अन्यस्मादणेव / याकृल्लोमनः / यकल्लोम्न इति किम् / प्रेक्षिणि भवः प्रैक्षिणः। 1438 गौष्टीतैकीनकेतीगोमतीशूरसेनवाहीकरोमकपटचरात् // 6 // 3 // 26 // गोष्ठयादिभ्यः शेषेऽर्थेऽञ् स्यात् / गौष्ठः / तैकः / नैकेतः। एभ्यो वाहीकग्रामलक्षणयोणिकेकणोस्तैक्याः कोपान्त्यलक्षणस्येयस्य चापवादः। गौमतः / अस्मिन्नील्लक्षणस्याकः / शौरसेनः / अत्र राष्ट्राकञः / वाहीक;। रोमकः / अत्र दुलक्षणस्येयस्य / पाटच्चरः / अत्र रोपान्त्यलक्षणस्याकत्रः। एके तु गौष्ठीस्थाने गोष्ठी तैकीस्थाने तेकी नैवीं च पठन्ति / 1439 शकलादेर्यः // 6 // 3 // 27 // शकलादिभ्यो यजन्तेभ्यः शेषेऽर्थेऽञ् स्यात् / ईयस्यापवादः। गर्गाद्यन्तर्गणः शकलादिः। शकलस्यापत्यं वृद्धं शाकल्यः / तस्य छात्राः शाकलाः। एवं काण्ठाः। यत्र इति किम् / शकलो देवताऽस्य शाकलः तस्येदं शाकलीयम् / 1440 वृद्धेञः // 6 // 3 // 28 // वृद्धे य इञ् विहितस्तदन्ताच्छेषेऽर्थेऽञ् स्यात् / ईयस्यापवादः / दक्षस्यापत्यं दृद्धं दाक्षिस्तस्य छात्राः दाक्षाः। वृद्धति किम् / सुतंगमेन निर्वृत्ता सौतंगमी नगरी तस्यां भवः सौतंगमीयः। ___ 1441 न द्विस्वरात् प्राग्भरतात् // 6 // 3 // 29 // प्राच्यगोत्रवाचिनो भरतगोत्रवाचिनश्च नानो वृद्धेअन्ताद् द्विस्वराद न स्यात् / पूर्वेण प्राप्तस्य प्रतिषेधः / पाचः-चैङ्कीयाः। पौष्पीयाः। चिङ्कपुष्पशद्वावाबन्तावपि तत्र वावादित्वादिइ / भरतात्-काशीयाः / वाशीयाः / द्विस्वरादिति किम् / पानागारेश्छात्राः पानागाराः। माग्भरतादिति किम् / दाक्षाः। प्राग्ग्रहणे भरतानां ग्रहणं न भवतीति 1442 भवतोरिकणीयसौ // 6 // 3 // 30 // भवतुशद्धाच्छेषेऽर्थे इकण इयस् स्याताम् / इयापवादौ / भवतः भवत्या वा इदं भावत्कम् / भावत्की। भव