________________ [तद्धित 294 सिद्धहैमबृहत्मक्रिया. ग्रामशदस्य त्रैरूप्यं भवति / कत्त्र्यादिषु पठितो नगरशद्धो महिष्मत्यादिसाहचर्यात् संज्ञायामेयकत्रमुत्पादयति अन्यत्राणमेव / 1423 कुण्डयादिभ्यो यलुक् च // 6 // 3 / 11 // कुण्डयादिभ्यः शेषेऽर्थे एयकञ् प्रत्ययः स्यात् तत्संनियोगे यलुक् चैषाम् / कौण्डेयकः। बहुवचनं प्रयोगानुसरणार्थम् / 1424 कुलकुक्षिग्रीवाच्छ्वास्यलङ्कारे // 6 // 3 // 12 // कुलकुक्षिग्रीवा इत्येतेभ्यो यथासंख्यं श्वास्यलंकारविशिष्टे प्राग्जितीये शेषेऽथै एयकञ् प्रत्ययः स्यात् / अणोऽपवादः। कुले शुद्धान्वये भवो जातो वा कौलेयकः श्वा। कौलोऽन्यः। कौक्षेयकोऽसिः। यः कङ्ककुक्षिनिर्जीर्णेनायसा कृतः। कौक्षोऽन्यः। 7वेयकोऽलंकारः। ग्रैवोऽन्यः। . 1425 दक्षिणापश्चात्पुरसस्त्यण // 6 // 3 // 13 // एभ्यः शेषेऽर्थे त्यण प्रत्ययः स्यात्। अणोऽपवादः।दक्षिणा दिक् तस्यां भवो दाक्षिणात्यः। अथवा दक्षिणस्यां दिशि वसति ‘वा दक्षिणा प्रथमा सप्तम्या आ' इत्याप्रत्यये दक्षिणा / तत्र भवो दाक्षिणात्यः / पाश्चात्यः / पौरस्त्यः। पश्चात्पुरःशद्धसाहचर्यादक्षिणा इति दिक्शद्वोऽव्ययं वा गृह्यते / तेनेह न भवति-दक्षिणायां भवानि दाक्षिणानि जुहोति / अत्र दक्षिणाशदो गवादिवचनः / अव्ययादेवेच्छन्त्येके / 1426 बल्यूपिर्दिकापिश्याष्टायनण् // 6 // 3 // 14 // बहि ऊदि पदि कापिशी इत्येतेभ्यः शेषेऽर्थे टायनण् प्रत्ययः स्यात् / बाहायनः। बाहायनी / और्दायनः / और्दायनी। पार्दायनः / पार्दायनी / कापिशायनं मधु / कापिशायनी द्राक्षा / बल्हीति ऊष्मोपान्त्यः / केचिदत्र वकारं दीर्घान्तं पठन्ति / 1427 रङ्कोः प्राणिनि वा // 6 // 3 // 15 // रङ्कुशद्धात् प्राणिविशिष्टे शेषेऽर्थे टायनण वा स्यात् / राङ्कवायणः। पक्षेऽण राङ्कयो गौः। माणिनीति किम् / राङ्कचः कम्बलः / मनुष्ये तु प्राणिन्यपि कच्छादिपाठात् 'कच्छादेनॅनृस्थे' इति परत्वादकत्रेव भवति / राचको मनुष्यः / 1428 केहामात्रतस्त्यच् // 6 / 3 / 16 / / क इह अमा इत्येतेभ्यस्त्रतस्पत्यथान्तेभ्यश्च शेषेऽर्थे त्यच् प्रत्ययः स्यात् / कत्यः / इहत्यः / अमात्यः। तत्रत्यः /