________________ 248 सिद्धहैमबृहत्मक्रिया. [तद्धित भवतः / आत्रेयः, जातसेनिः इत्यादि / कथं दौर्योधनिः ? क्रियाशब्दत्वात् 1151 कन्यात्रिवेण्याः कनीनत्रिवणं च // 6 / 1 / 62 // कन्याशद्वात् त्रिवेणीशद्वाच्चापत्येऽण् प्रत्ययः स्यात् तत्संनियोगे कनीन त्रिवण इत्येतावादेशौ च यथासंख्यं स्याताम् / कन्याया अपत्यं कोनीनो व्यासः कर्णश्च / त्रिवेण्या अपत्यं त्रैवणः। एयणोऽपवादः। ... 1152 शुङ्गाभ्यां भारद्वाजे // 6 / 163 // शुङ्गशब्दात् पुंलिङ्गात् स्त्रीलिङ्गाच्च भारद्वाजेऽपत्येऽण् प्रत्ययः स्यात् / शुङ्गस्य शुङ्गाया वा अपत्यं शौङ्गो भारद्वाजः / शौङ्गिः शौङ्गेयश्चान्यः / 'नामग्रहणे लिङ्गविशिष्टस्यापि द्विवचनेन स्त्रीलिङ्ग : शुङ्गाशब्द उपादीयते / 1153 विकर्णच्छगलाद्वात्स्यात्रेये // 6 / 164 // विकर्ण छगल इत्येताभ्यां यथासंख्यं वात्स्ये आत्रेये चापत्येऽण प्रत्ययः स्यात् / वैकर्णो वात्स्यः। वैकर्णिरन्यः। छागल आत्रेयः। छागलिरन्यः / - 1154 णश्च विश्रवसो विश्लुकच वा // 6 // 1 // 65 // विश्रवसोऽपत्येऽण्प्रत्ययस्तत्संनियोगे णकारश्चान्तादेशो भवति णसंनियोगे विशशब्दलोपश्चास्य वा / विश्रवसोऽपत्यं वैश्रवणः। विश्लकि तु रावणः / अण् सिद्ध एवादेशार्थं वचनम् / एवमुत्तरत्र / 1155 संख्यासंभद्रान्मातुर्मातुर् च // 6 // 1 // 66 // संख्यावाचिनः सम् भद्र इत्येताभ्यां च परो यो मातृशद्धस्तदन्तादपत्येऽण् प्रत्यय: स्यात् मातुश्च मातुरादेशः। द्वयोर्मात्रोरपत्यं द्वैमातुरः। पाण्मातुरः। संगता माता संमाता तस्या अपत्यं सांमातुरः। भद्राया भद्रस्य वा माता भद्रमाता तस्या अपत्यं भाद्रमातुरः। 'संबंधिनां संबंधे' भवति / संख्यासंभद्रादिति किम् / / सौमात्रः / शुभ्रादिपाठाद्वैमात्रेयः / 1156 संज्ञा दुर्वा // 6 / 116 // या संज्ञा संव्यवहाराय हठान्नियुज्यते सा दुसंज्ञा वा स्यात् / 1157 त्यदादिः // 6 // 1 // 7 // सर्वाधन्तर्गतास्त्यदादयो दुसंज्ञाः स्युः।