________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 205 / / अथैकशेषः / / 922 समानामर्थेनैकः शेषः // 3 / 1 / 118 // अर्थेन समानां समानार्थानां शब्दानां सहोक्तो गम्यमानायामेकः शिष्यते अर्थादन्ये निवर्तन्ते / तत्र विशेषानुपादानात् पर्यायेण शेषो भवति / बहुवचनमतन्त्रम् / तेन द्वयोरप्येकः शिष्यते / वक्रश्च कुटिलश्च वक्रौ, कुटिलौ वा / वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ, कुटिलदण्डाविति वा / एवं लोहिताक्षौ रक्ताक्षाविति वा / सितश्च शुक्लश्च श्वेतश्च सिताः शुक्लाः श्वेता वा। अर्थेन समानामिति किम् / प्लक्षन्यग्रोधौ। सहोक्तावित्येव / वक्रश्च कुटिलश्च / द्वन्द्वापवादो योगः। ___ स्यादावसंख्येयः / उक्तमेव। अयमपि द्वन्द्वापवादो विधिः / तेनाकृतद्वन्द्वानामेवैकशेषे वाक् च वाक् च वाचावित्यादि सिद्धम् / अन्यथा द्वन्द्वे कृते परत्वात् समासान्ते कृते वैरूप्यादेकशेषो न स्यात् / 923 त्यदादिः॥३।१।१२०॥त्यदादिनान्येन च सहोक्तीत्यदादिरेवैकः शिष्यते। स च चैत्रश्च तौ / स्पर्धे परमिति त्यदादीनां मिथः सहोक्तौ यद्यत् पाठे परं तत्तदेवैकं शिष्यते / स च यश्च यौ। बहुलाधिकारात् पूर्वमपि / स च यश्च तौ / त्यदादेः कृतैकशेषस्य स्त्रीपुनपुंसकलिङ्गानां युगपत्प्रयोगात् पर्यायप्राप्तौ शिष्यमाणलिगप्राप्तौ वा स्त्रीनपुंसकानां सह वचने स्यात् परमिति यथापरमेव लिङ्गं भवति / सा च चैत्रश्च तौ। स च देवदत्ता च तो। अत्र स्त्रीपुंसलिङ्गयोः परं पुंलिङ्गमेव भवति। सा च कुण्डे च तानि / अत्र स्त्रीनपुंसकयोः परं नपुंसकमेव भवति / स च कुण्डं च ते। तच्च चैत्रश्च ते। अत्र पुनपुंसकयोः परं नपुंसकमेव भवति / कथं स च कुक्कुटः सा च मयूरी ते कुक्कुटमयू ? / उच्यते / परलिङ्गो द्वन्द्वोऽशीति समासार्थस्य लिङ्गातिदेशात् तद्विशेषणस्य त्यदादेरपि तल्लिअतैव न्याय्येति / 924 भ्रातृपुत्राः स्वमृदुहितृभिः // 3 / 1 / 121 / / बहुवचनं पर्यायार्थम् / स्वस्रर्थेन सहोक्तौ भ्रात्रर्थः शब्दो दुहित्रर्थेन सहोक्ता पुत्रार्थ एकः शिष्यते / भ्राता च स्वसा च भ्रातरौ / सोदर्यश्च स्वसा च सोदय / भ्राता च भगिनी च भ्रातरौ / पुत्रश्च दुहिता च पुत्रौ / सुतश्च दुहिता च सुतौ / पुत्रश्च सुता च पुत्रौ / 925 पिता मात्रा वा // 3 / 1 / 122 // मातृशब्देन सहोक्तौ पितृशब्द एकः