SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 204 सिद्धहैमबृहत्प्रक्रिया [द्वन्द्वसमास ___ 918 उषासोषसः // 3 // 2 // 46 // देवताद्वन्द्वे उत्तरपदे परे उषस्शदस्योपासा इत्ययमादेशः स्यात् / उषश्च सूर्यश्च उषासासूर्यम् / केचित्तु सूर्यशब्दस्यापीच्छ 919 मातरपितरं वा // 32 // 47 // मातृपितृशब्दयोः पूर्वोत्तरपदयोर्द्वन्द्वे पक्षे मातापितरौ / एकशेषे तु पितरौ / शबरूपापेक्षो नपुंसकैकवचननिर्देश उत्तरपदस्य अरभावाभिव्यक्त्यर्थः। उत्तरपदस्यारं नेच्छन्त्यन्ये / खियाः पुंसो द्वन्द्वाच्च / इत्युक्तमेव / स्त्रीपुंसम् / स्त्रीपुंसौ / 920 ऋक्सामय॑जुषधेन्वनडुहवाङ्मनसाहोरात्ररात्रिंदिवनक्तंदिवार्दिवोर्वष्ठीवपदष्टीवाक्षिभ्रुवदारगवम् / / 7 / 3 / 97 // ऋक्सामादयो द्वन्द्वा अत्प्रत्ययान्ता निपात्यन्ते / ऋक् च साम च ऋक्सामे / ऋक्च यजुश्च ऋग्यजुषमधीयानान् / धेनुश्च अनड्वाश्च धेन्वनडुहो। असमाहारार्थ धेन्वनडुहग्रहणम्। समाहारे तूत्तरेणैव सिद्धम् / वाक् च मनश्च वाङ्मनसे / अहश्च रात्रिश्च अहोरात्रः। रात्रिश्च दिवा च रात्रिंदिवम् / निपातनात् पूर्वपदस्य मोऽन्तः / नक्तं च दिवा च नक्तदिवम् / अवापि मोऽन्तः / अहश्च दिवा च अहर्दिवम् / पर्याययोरपि वीप्सायां द्वन्द्वो निपातनात् / अहरहरित्यर्थः। रात्रिपर्यायोऽत्रान्यतर इत्येके / अहर्निशमित्यर्थः। उरू च अष्ठीवन्तौ च उर्वष्ठीवम् / निपातनादन्त्यस्वरादिलोपः / पादौ चाष्ठीवन्तौ च पदष्ठीवम् / अत्र पद्भावश्च / अक्षिणी च भूवौ च अक्षिभ्रुवम्। दाराश्च गावश्च दारगवम् / अत्र भ्रूशब्दस्य निपातनादुवादेशोऽक्षिदारशब्दयोश्च पूर्वनिपातः / द्वन्द्वादित्येव / ऋक् साम यस्य ऋक्सामा मुग्धः / 921 चवर्गदषहः समाहारे // 7 / 3 / 18 // चवर्गदकारपकारहकारान्ताद् द्वन्द्वात्समाहारेऽर्थे वर्तमानादत् स्यात् / वाक् च त्वक् च वाक्त्वचम् / श्रीस्रजम् / दु-समिदृपदम्। प-वाक्त्विषम् / ह-छत्रोपानहम् / समासान्तत्वेन प्रत्ययस्य द्वन्द्वा किम् / दृषत्समित् / यकृन्मेदः / समाहारे इति किम् / पाट्शरद्भ्याम् / द्वन्दादित्येव / पञ्च वाचः समाहृताः पश्चवाक् / इति श्रीसिद्धहैमबृहत्पक्रियायां समास प्रकरणे इन्द्वः समाप्तः //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy