________________ सिद्धहैमबृहत्प्रक्रिया [ तत्पुरुषसमास किम् / गुणक्रियाद्रव्यप्रश्ने न भवति / कतरः शुक्लः। कतरो गन्ता / कतमो गन्ता / एवेति नियमार्थ वचनम् / 840 किं क्षेपे // 3 / 1 / 110 // क्षेपो निन्दा / तस्मिन् गम्यमाने किमित्येतनामैकार्थमर्थात् क्षिप्यमाणवाचिनाम्ना सह समस्यते स च समासस्तत्पुरुषः कर्मधारयश्च / को राजा किंराजा यो न रक्षति / अत्र / 841 राजन्सखेः / / 7 / 3 / 106 // राजन् सखि इत्येतदन्तात् तत्पुरुषादट् समासान्तः स्यात् / इत्यनेन समासान्तो न भवति / कस्मादिति चेत् / 842 नः किमः क्षेपे // 7 / 3 / 70 // निन्दायां यः किंशब्दस्तदन्तात् विशेषणं विशेष्येणेत्येव सिद्ध क्षेपे एवेति नियमार्थ वचनम् / 843 पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहबष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तप्रशंसारूद्वैर्जातिः // 3 / 1 / 111 // जातिवाचि नामैकार्थ पोटादिभिर्नामभिः प्रशंसारूढैश्च सह समस्यते स च समासस्तत्पुरुषः कर्मधारयश्च / इभ्या च सा पोटा च इभ्यपोटा। पुरुषवेषधारिणी स्त्री पोटा गर्भ एव दास्यं प्राप्ता वा उभयव्यंजना वा भुजिष्यदासी वा / इभ्या चासौ युवतिश्च इभ्ययुवतिः। अग्निश्चासौ स्तोकं च अग्निस्तोकम् / दधि च तत् कतिपयं च दधिकतिपयम् / गौश्चासौ गृष्टिश्च गोष्टिः / गृष्टिः सकृत्पमूता। गौश्चासौ धेनुश्च गोधेनुः / धेनुर्नवप्रसूता / गोवशा / वशा वन्ध्या / गोवेहत् / वेहद् गर्भघातिनी / गोबष्कयणी / वष्कयेण वृद्धवत्सेन या दुह्यते सा बष्कयणी / कठमवक्ता / प्रवक्ता उपाध्यायः। कठश्रोत्रियः। श्रोत्रियश्छन्दोध्यायी। कठाध्यायकः। अध्यायकोऽध्येता / मृगधूर्तः। निन्यं कुत्सनैरित्यत्र शब्दप्रवृत्तिनिमित्तकुत्सायां' समास उक्त इह तु तदाश्रयकुत्सायां समासो यथा स्यादिति धूर्तग्रहणम् / प्रशंसायां रूढा मतल्लिकादय आविष्टलिङ्गास्तैः समासः / गौश्वासौ मतल्लिका च गोमतल्लिका। गोमचर्चिका / गोप्रकाण्डम् / पुरुषोद्घः / गोतल्लजकः। रूढग्रहणादिह न भवति / गौः रमणीया। जातिरिति किम् / देवदत्ता पोटा / विशेष्यस्य जातेः