SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रकरणम्] सिद्धहैमबृहत्प्रक्रिया. 835 सेड्नानिटा // 3 / 1 / 106 // सेट् क्तान्तं नाम नबादिभिन्नेनानिटा नाम्ना न समस्यते / पूर्वस्यापवादः। क्लिशितमक्लिष्टम् / पवितमपूतम् / इड्ग्रहणमर्थभेदाहेतोविकारस्य उपलक्षणम् / तेन शिताशितं, छिताछितमित्यादि न भवति / कथं विनावित्तं त्राणात्रातम् ? / 'क्तादेशोऽपि ' इति परे समासे नत्त्वस्यासत्त्वाद् भविष्यति / सेडिति किम् / कृताकृतम् / अनिदेति किम् / अशितानशितेन जीवति / 836 सन्महत्परमोत्तमोत्कृष्टं पूजायाम् // 3 / 1 / 107 // सदादीनि नामान्येकार्थानि पूजायां गम्यमानायां सामर्थ्यात् पूज्यमानवचनैर्नामभिः सह समस्यन्ते स च समासस्तत्पुरुषः कर्मधारयश्च / सँश्चासौ पुरुषश्च सत्पुरुषः। महाश्चासौ पुरुषश्चेति विग्रहेऽनेन समासे / 837 जातीयैकार्थेऽच्च्वेः // 3 / 2 / 70 // महतोऽव्यन्तस्य जातीयप्रत्यये एकार्थे चोत्तरपदे डान्तादेशः स्यात् / महापुरुषः / परमपुरुषः / उत्तमपुरुषः / उत्कृष्टपुरुषः / पूजायामिति किम् / सन् घटः विद्यमान इत्यर्थः / कथं महाजनः , महोदधिः ? विपुलं ह्यत्र गम्यते न पूजा / बहुलाधिकारात् भविष्यति / पूजायामेवेति नियमार्थ वचनम् / पूर्वनिपातव्यवस्थार्थ च / तेन सच्छुक्ल इत्यादौ खञ्जकुण्टादिवदनियमेन पूर्वनिपातो न भवति / परमजरन् महावीरः परममहान् इत्यादौ च स्पर्धे परमिति यथापरं पूर्वनिपातश्च सिद्धो भवति / 838 वृन्दारकनागकुञ्जरैः // 3 / 1 / 108 // पूजायां गम्यमानायामेभिर्नामभिः सामर्थ्यात् पूज्यमानवचनं नामैकार्थ समस्यते स च समासस्तत्पुरुषः कर्मधारयश्च / वृन्दारक इव वृन्दारकः। गौश्चासौ वृन्दारकश्च गोटन्दारकः। एवं गोनागः। गोकुञ्जरः / वृन्दारकादीनां जातिशद्वत्वेऽपि उपमानात्पूजावगतिः। पूजायामित्येव / शोभना सीमा स्फटा यस्य सः सुसीमो नागः / नात्र नागशब्दः पूजां गमयति / व्याघ्रादेराकृतिगणत्वात् ' उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ' इत्येव सिद्धे पूजायामेवेति नियमार्थ साम्योक्तावपि विधानार्थ वचनम् / तेन गोनागो बलवानित्यादि सिद्धम् / 839 कतरकतमौ जातिप्रश्ने // 3 / 1 / 109 // कतरकतमावित्येतावेकार्थी जातिप्रश्न गम्यमाने सामर्थ्याजातिवाचिना नाम्ना सह समस्येते स च समासस्त. त्पुरुषः कर्मधारयश्च / कतरश्चासौ कठश्च कतरकठः / कतमकालापः। जातिप्रश्न इति
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy