SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. वा प्रतीतौ मा भूत् / गम्य इति किम् / गतशब्दप्रयोगे मा भूत् / गवीधुमतः सांकाश्यं चतुर्प योजनेषु गतेषु भवति / अत्रैकार्थ्य न भवति / सप्तमी तु पूर्वेण नित्यं भवति / अध्वन इति किम् / कार्तिक्या आग्रहायणी मासे / अत्राप्यैकार्थ्याभावे पूर्वेण नित्यं सप्तमी / अन्तेनेति किम् / अद्य नश्चतुर्यु गव्यूतेषु भोजनम् / भोजनं हि भोक्तृधर्मो नाध्वनोऽन्त इति पूर्ववत् सप्तम्येव / नन्वन्तेन सहाध्वनोऽभेदोपचारात् सिद्धमेवैकार्थं किमनेन ? / सत्यम् / कालेऽप्येवं मा भूदिति वचनम् / 600 षष्ठी वानादरे // 2 / 2 / 108 // यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानाद गौणान्नान्नोऽनादरे गम्यमाने षष्ठी वा स्यात् / पक्षे पूर्वेण सप्तमी। रुदतो लोकस्य रुदति वा लोके पात्राजीत् / रुदन्तमनादृत्य प्रावाजीदित्यर्थः / 601 सप्तमी चाविभागे निर्धारणे // 2 // 2 // 109 // जातिगुणक्रियादिभिः समुदायादेकदेशस्य पृथकरणं निर्धारणम् तस्मिन् गम्यमाने गौणानाम्नः षष्ठी सप्तमी च स्यात्, अविभागे-निर्धार्थमाणस्यैकदेशस्य समुदायेन सह कथंचिदैक्ये शद्वाद् गम्यमाने / क्षत्रियः पुरुषाणां पुरुषेषु वा शूरतमः / कृष्णा गवां गोषु वा संपन्नक्षीरतमा / धावन्तो गच्छतां गच्छत्सु वा शीघ्रतमाः / युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा / आवभाग इति किम् / माथुराः पाटलिपुत्रकेभ्य आढ्यतराः / अत्र हि शद्धाद् भेद एव प्रतीयते न तु कथंचिदैक्यमिति न भवति / पञ्चमीबाधनार्थ वचनम् / अन्ये तु पञ्चमीमपीच्छन्ति / गोभ्यः कृष्णा संपन्नक्षीरतमा / 602 क्रियामध्येऽध्वकाले पञ्चमी च // 2 / 2 / 110 // क्रिययोर्मध्ये योऽध्या कालश्च तस्मिन् वर्तमानाद् गौणान्नाम्नः पञ्चमी चकारात् सप्तमी च भवति। इहस्थोऽयमिष्वासः क्रोशाल्लक्ष्यं विध्यति / इह धानुष्कावस्थानमिषुमोक्षो वैका क्रिया लक्ष्यव्यधश्च द्वितीया तन्मध्ये क्रोशोऽध्या / अद्य भुक्त्वा मुनिद्यहाद् भोक्ता / अत्र द्वयोर्भुक्तिक्रिययोर्मध्ये यहः कालः / ननु च क्रोशे स्थितं लक्ष्यं विध्यति यहे पूर्णे भुङ्क्ते इत्यधिकरण एव सप्तमी; क्रोशान्निःसृत्य स्थितं लक्ष्यं विध्यति, यहमतिक्रम्यानुभुङ्क्ते इत्यपादाने 'गम्ययपः कर्माधारे' इति पञ्चमी च सिदैव / सत्यम् / यदा त्वस्यैव क्रियाकारकसंबंधस्य फलभूता शेषसंबंधलक्षणोत्तरावस्था विवक्ष्यते यथा द्विरह्रो भुङ्क्ते, योजनस्य शृणोतीति तदापि क्रियामध्ये षष्ठी मा भूदिति वचनम् / 603 अधिकेन भूयसस्ते // 2 / 2 / 111 // अधिरूढ इत्यर्थेऽधिकशब्दो 18
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy