________________ 128 सिद्धहैमबृहत्पक्रिया. . [कारक पराजयते-अत्रापि अध्ययनं भोजनं वा सहमानस्ततो निवर्तत इत्यपाय एव / यवेभ्यो गां रक्षति / इहापि गवादेर्यवादिसंपर्क बुद्धया समीक्ष्यान्यतरस्य विनाशं पश्यन् गवादीन् यवादिभ्यो निवर्तयतीत्यपाय एव / उपाध्यायादन्तर्धत्ते, उपाध्यायानिलीयते-मा मामुपाध्यायोऽद्राक्षीदिति तिरोभवतीत्यत्राप्यपायः। शृङ्गाच्छरो जायत इत्यादिषु शृङ्गादिभ्यः शरादयो निष्क्रामन्तीति स्फुट एवापायः / यदि निष्कामन्ति किं नात्यन्ताय निष्क्रामन्ति / संततत्वादन्यान्यप्रादुर्भावाद्वा / हिमवतो गङ्गा प्रभवतीत्यत्राप्यापः संक्रामन्तीत्यपायोऽस्ति। यद्यपक्रामन्ति किं नात्यन्तमपक्रामन्ति, संततत्वादन्यान्यप्रादुर्भावाद्वा। वलभ्याः शत्रुजयः षड् योजनानि षट्सु वा योजनेषु भवति / अत्र वलभ्या निःसृत्य गतानि योजनानि गतेषु वा तेषु भवतीत्यर्थः। कार्तिक्या आग्रहायणी मासे / ततः प्रभृति मासे गते भवतीत्यर्थः / उभयत्रापायः प्रतीयते / चैत्रान्मैत्रः पटुरित्यादौ मैत्रादयः पुंस्त्वादिना संसृष्टाः पटुत्वादिधर्मेण ततो विभक्ताः प्रतीयन्ते इति सर्वत्राप्यपायविवक्षा। विवक्षान्तरे खपादानखाभावे यथायोगं विभक्तयो भवन्ति / बलाहके विद्योतते / बलाहकं विद्योतते / इत्यादि। 561 आङावधौ // 2 / 2170 // अवधिर्मर्यादा। अभिविधिरपि तद्विशेष एवेति तस्यापि ग्रहणम् / अवधौ वर्तमाद् आङा युक्ताद् गौणान्नाम्नः पञ्चमी स्यात् / आ पाटलिपुत्राद् दृष्टो मेघः। पाटलिपुत्रमवधीकृत्य तद्व्याप्याव्याप्य वा दृष्ट इत्यर्थः। 562 पर्यपाभ्यां वर्थे ।।२।२७१॥वर्ये वर्जनीयेऽर्थे वर्तमानात् पर्यपाभ्यां युक्ताद् गौणान्नाम्नः पञ्चमी स्यात् / परि पाटलिपुत्राद दृष्टो मेघः। अप पाटलिपुत्राद् दृष्टो मेघः / पाटलिपुत्रं वर्जयिखा / वयं इति किम् / अपशब्दो मैत्रस्य / 563 यतः प्रतिनिधिप्रतिदाने // 2 / 272 // प्रतिनिधीयते इति प्रतिनिधिमुख्यसदृशोऽर्थः। प्रतिदानं गृहीतस्य प्रत्यर्पणम् विशोधनमिति यावत् / प्रतिना योगे यतः प्रतिनिधिर्यतश्च प्रतिदानम् तद्वाचिनो गौणानाम्नः पञ्चमी स्यात् / प्रद्युम्नो वासुदेवात् प्रति / सदृश इत्यर्थः। तिलेभ्यः प्रति माषानस्मै प्रयच्छति / तिलान् गृहीत्वा माषान् ददाति इत्यर्थः। यत इति किम् / तिलेभ्यः प्रति माषान् प्रयच्छति इत्यत्र माषशब्दान्मा भूत् / प्रतिनिधिप्रतिदान इति किम्। वृक्षं पति विद्योतते विद्युत्।