________________ 1995 इति ने। णः सिद्धः। द्वौ यथा-प्रतिपूर्वस्य पतेर्यङ्लुपि दिवि 'व्यञ्जनाद्देः सश्च द // 4 // 3 // 78 // इति तल्लुकि प्रण्यपनीपतदित्यादावट्। आदिशब्दनिर्दिष्टत्वेन न्यश्चान्तशब्दनिर्दिष्टत्वेनागमत्वात्तद्युतस्यापि पतेः पतिग्रहणेन ग्रहणात् 'नेमादा०' इति नेणिः सिद्धः / त्रयो यथा-प्रनिपूर्वस्य यमर्यङ्लुपि अद्यतन्यां प्रण्ययंयंसीदित्यत्राडागमम्वागमसागमयुतेऽपि यमौ परे ' अकखाद्यषान्ते // 2 // 380 // इति ने! णः सिद्धः। ज्ञापकमस्य सेटक्कसोरुषादेशाय 'वसुष्मतौ च // 2 // 1 / 105 // इत्येतद्भिन्नयत्नाकरणम् / एतन्न्यायाभावे 'वसुष्मतौ च' इत्यनेनानिटः क्वसोरुषादेशे बभूवुषीत्यादीनां सिद्धावपि पेचुषीत्यादिसेटक्वस्वन्तानां सिद्धयर्थमुषादेशविधायकं सूत्रान्तरं कर्तव्यमेव / अनित्यश्चायम् / 'केः स्कन्दोक्तयोः // 2 // 3151 // इति षत्वसत्रे अदसहितस्य स्कन्दग्रहणेनाग्रहणे व्यस्कन्दादित्यादौ षत्वस्याभवनात् / अनित्यत्वे ज्ञापकं त 'उपसर्गात्सुगसवसो० // 23 // 39 // इत्यत्र अटयपीति वचनम् / तद्धि अभ्यषुणोदित्यादावड्व्यवधानेऽपि षत्वार्थम् / नित्यत्वे त्वस्य सुग्ग्रहणेनासहितस्यापि सुगो ग्रहणसिद्धेरटा व्यवधानाभवनादट्यपीति न वक्तव्यमेव / 'आगमोऽनुपघाती' त्यपि न्यायो विद्यते परं सोऽप्यत्रैवान्तर्भवति समानफलत्वात् // 68 // स्वाङ्गमव्यवधायि // 69 // द्विरुक्तादिकं स्वमङ्गं धात्वादेनिजाङ्गिनः कार्ये कर्तव्ये व्याघातकं न भवति / स्वाङ्गत्वस्य ह्येतावदेव फलमिति ज्ञापनार्थोऽयं न्यायः। यथा संचस्कारेत्यत्र सम् कृ इति स्थितेऽन्तरङ्गत्वात् प्रथमं स्सटि ततश्च तदवसरप्राप्ते 'स्सटि समः' // 1 // 3 / 12 // 'लुक' // 13 // 13 // इति सूत्रे बाधित्वा परत्वान्नित्यत्वाद् धातुमात्राश्रयत्वेनान्तरङ्गत्वाच्च णवि तदाश्रिते द्वित्वादौ च कृते संचस्कृ इति स्थिते एतन्न्यायाद् धात्वङ्गेन द्वित्वजचकारेण समो व्यवधानाभवनात् निमित्ताभाव इति न्यायप्राप्ता स्सटो निवृत्ति भूत् / ज्ञापकमस्य ‘ने दा०' // 2 // 379 // इति सूत्रस्य 'द्वित्वेऽप्यन्तेऽप्यनितेः० // 2 // 379 // इति सूत्रान्तरकरणं तत्र च द्वित्वेऽपीत्यननुवर्तयित्वा ङ्मादिधातूनां सामान्यनिर्देशः / तथाहि नेर्णत्वं तावत् प्रणिपततीत्यादिवत् प्रणिपपातेत्यादावपीष्टम् / तच्च तदैव सिद्धयेत् यदि ‘ने दिा' इत्येतत् 'द्वित्वेऽप्यन्ते' इत्येतदनन्तरं क्रियेत तत्र च द्वित्वेऽपीत्यनुवत्यैत / एवं हि द्वित्वेऽप्यद्वित्वेऽपि च ङ्मादिधातुषु परेषु नेणः सिद्धयत्येव / यत्तु तथा न कृतं किन्तु सामान्येन ङ्मादिधातव एव निर्दिष्टास्तज्ज्ञायते प्रणिपततीत्यादिवत् प्रणिपपातेत्यादावपि ' ने दा०' इत्यनेनैव णत्वं सेत्स्यति; द्वित्वजस्य पस्य धातोः स्वाङ्गत्वात् स्वाङ्गमव्यवधायीति न्यायस्य सद्भावात् / अ. नित्यश्वायम् / 'वेःस्कन्दोक्तयोः' // 23351 // इत्यत्र द्वित्वसहितस्य स्कन्दः अग्रहणाविचिस्कन्त्सतीत्यादौ षत्वाभावात् / अनित्यत्वे ज्ञापकं तु प्रतितष्ठावि. त्यादौ द्वित्वब्यवधानेऽपि षत्वार्थ 'स्थासेनिसेध०' // 2340 // इत्यत्र द्वित्वे