________________ 1194 . कुलानीत्यादौ नागमार्थ 'धुटां वाक्' // 2466 // इति बहुवचनम् / तद्धि धुइपजातिग्रहार्थ न्यस्तम्। नित्यत्वे स्वस्य धुट् इत्येकवचनेनापि सिद्धौ बहुवचनं किमर्थ न्यस्येत / अथास्मिन्न्याये वर्णग्रहणे इत्यस्योपलक्षणत्वात् विशिष्टवर्णसमुदायग्रहणेऽपि क्वचिजात्याश्रयणं सिद्धयति / यथा 'उपान्त्यस्यासमान' // 42 // 35 // इत्यादौ णाविति णिजातिराश्रीयते / तेन चोरयन्तं प्रायुक्त अचूचुरदित्यत्र णिद्वयेनापि एकस्यैव णेर्डपरत्वगणनात् ह्रस्वः सिद्धयति // 65 // वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते // 66 // ऋकारमध्येऽर्द्धमात्रो रेफ्रोऽग्रे पश्चाञ्च तुरीयः स्वरभागोऽस्ति / एवं लकारेउर्द्धमात्रो ल इत्याद्यपि वाव्यमिति वृद्धाः। ततश्च यथा गोविक्रये क्रियमाणे मांसविक्रयनियमो न प्राप्नोति गवि मांसबुद्धेरभावात् तथा ऋलग्रहणे तन्मध्यस्थरलयोग्रहणं न प्राप्नोति ताभ्यां रलबुद्धेरनुत्पादनादित्यतोऽयं न्यायः। यथा प्रलीयमानमित्यादिवत् प्रक्लप्यमानमित्यादावपि लकारव्यबधाने तदेकदेशलकारेणापि व्यवधानादलचटेति निषेधेन 'स्वरात् ' // 2 // 3 // 85 // इति प्राप्तं णत्वं बाभूत् / ज्ञापकमस्य प्रक्लप्यमानमित्यादौ णत्वनिषेधाय यत्नान्तराकरणम् / अनित्यश्चायम् / कृतः कृतवानित्यादौ 'रदादमूर्छमद० // 4 // 269 // इति प्राप्तस्य क्तयोस्तो नत्वस्य अभवनात्। नित्यत्वे त्वस्य ऋमध्यस्थरेफस्य रग्रहणेन ग्रहणे नत्वप्राप्ति१निवारैव / अनित्यताशापकं तु 'रघुवर्णात् ' // 2 // 3 // 63 // इत्यत्र रेफकवर्णयोर्ग्रहणम् / नित्यतायामस्य वर्णमध्येऽपि रेफस्य विद्यमानत्वाद् एकग्रहणेनापि सरेदेव // 66 // __ तन्मध्यपतितस्तद्ग्रहणेन गृह्यते // 67 // नादिप्रत्यये एकस्मिन्ननेकस्मिन् वाऽन्तःपतितेऽपि सति धात्वादेर्यथोक्तं कार्य स्यादेव। प्रत्ययेऽन्तःपतिते धातोः खण्डितत्वबुद्धरुत्पादात् खण्डीभूतस्य च तस्य कपालरूपतापनकलशस्य जलाहरणादिकार्य इव धातुकार्ये अप्राप्तेऽयं न्यायः। तत्रैक्रस्मिन्यथा-अरुणदित्यत्र नेऽन्तःपतितेऽपि रुधे: प्रागट सिद्धः। अनेकस्मिन्यथाअतृणेडित्यत्र श्ने ईति चान्तःपतितेऽपि तृहेः प्रागट् / ज्ञापकमस्य 'त्वमहं सिना० // 2 // 1 // 12 // इत्यत्र प्राक्चाक इति कथनम् / तद्धि युष्मदस्मदोरकि सौ त्वकमहकमित्येतदर्थम् / प्राकचाक इति कथनाभावे 'त्यादिसर्वादि०' // 73 // 29 // इत्यनेन प्रथममकि एतन्न्यायेन साकोऽपि युष्मदस्मदोस्त्वमहमादेशः स्यात् / तथा चाकःश्रवणमेव न स्यात् / अस्यानित्यत्वं न दृश्यते // 67 // ___ आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते // 6 // बहुवचनस्यातन्त्रत्वादेकोऽपि व्यादयो वा आगमाः यद्गुणीभूताःयस्यावयवी. भूतास्तद्ग्रहणेन गृह्यन्ते। यस्य केवलस्य यत्कार्यमुक्तं तत्तस्य सागमस्यापि स्यादि। त्यर्थः। तत्तदागमविधायके सूत्रे आदिशब्देनान्तशब्देन च निर्देशस्य फलदर्शनार्थोऽयं न्यायः / तत्रैको यथा-प्रण्यपतत् इत्यत्राट्सहितेऽपि पतौ 'नेाद्य० // 2 // 3 // 79 //