SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ 1054 हैमपञ्चपाठी. निषादी अतिथिः स्त्री पुमान् कुलं वा / स्याद्वादः प्रमाणम् , अनेकान्तात्मकं वस्तु संविदां गोचरः, दण्ड उपसर्जनं, विद्या गुणः, गौः प्रकाण्डं, कुमारी तल्लजः, अश्वो मतल्लिका / स्वार्थिककप्रत्ययान्तास्तु क्वचिद्वाच्यलिङ्गा अपि भवन्ति / वीरौ रक्षःप्रकाण्डकौ / कुमारी तल्लजका इत्यादि / बाहुलकात् क्वचिदाश्रयलिङ्गा अपि / प्रमाणी ब्राह्मगी। गुणो विशेषणं तस्मात् प्रवृत्तिनिमित्ताद्विशेष्ये वृत्तिर्यस्य स गुणवृत्तिः शब्दः तस्याश्रयाद्विशेष्यवशाल्लिङ्गवचने स्याताम् / परत्वात् सकलशास्त्रापवादः / अख्यारोपेति-आरोपोऽर्थान्तरे निवेशनम् / अस्त्रियामारोपीऽख्यारोपस्तस्याभावे सति / गुणवृत्तिश्च गुणद्रव्यक्रियोपाधिभेदात्रिधा / गुणोपाधिः-शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रम् / मूर्यो ना, मूर्खा स्त्री, मूर्ख कुलम् इत्यादि / द्रव्योपाधिः-दण्डी ना, दण्डिनी स्त्री, दण्डि कुलम् इत्यादि / क्रियोपाधिः-पाचको ना पाचिका स्त्री पाचकं कुलम् / सर्वादिः केवलस्तन्तश्च गुणवृत्तिः। एवं संख्यापि / सर्वः सूपः, सर्वा यवागूः, सर्वमन्नम् / एवं स सा तत् / अन्यः अन्या, अन्यत् / द्वाभ्यामन्यः यन्यः / घ्यन्या / यन्यत् / एकः पटः एका पटो एकं वस्त्रम् / एवं द्वौ द्वे द्वे / त्रयः तिस्रः त्रीणि / बहुव्रीहिरदिग्वृत्तिर्गुणवृत्तिः / चित्रा गावोऽस्य चित्रगुर्ना चित्रगुः स्त्री चित्रगु कुलम् इत्यादि / दिग्वाची तु दिग्नामत्वात् स्त्रीलिङ्गः / दक्षिणस्याः पूर्वस्याश्च यदन्तरालं दिक् सा दक्षिणपूर्वा दिक् / एवं दक्षिणपश्चिमा / पूर्वपदप्रधानस्तत्पुरुषस्तद्धितार्थद्विगुश्च गुणवृत्तिः। अतिक्रान्तः खट्वामतिखट्वः अतिखट्वा अतिखट्वम् / एवमवक्रुष्टः कोकिलया अवकोकिलः 3 / परिग्लानोऽध्ययनाय पर्यध्ययनः 3 / अलं जीविकायै अलंजीविकः 3 / निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः 3 / प्राप्तो जीविकां प्राप्तजीविकः 3 इत्यादयः। शतात्परे पर शताः। एवं परःसहस्राः 3 / परोलक्षाः 3 / उत्तरपदप्रधानस्य तु यथास्वं लिङ्गम् / तद्धितार्थद्विगुः-पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पञ्चकपाला पञ्चकपालम् / रक्ताद्यर्थेऽणाद्यन्ताश्च गुणवृत्तयः / हरिद्रया रक्तः हारिद्रः हारिद्रो हारिद्रम् / एवं सर्वतद्धितेषु यथायोगमपवादवर्जमुदाहार्यम् / आरोपाभावे इति किम् / चञ्चेव चचा पुरुषः / अत्र समतया आरोपः / एवमन्येष्वप्यारोपेवूदाहार्यम् / अस्त्रीति किम् / धवनानो योगात्तद्भार्यायामध्यारोपे आश्रयलिङ्गतैव / प्रष्ठस्य भार्या स एवेयमित्यभेदोपचारेण प्रष्ठी / एवं भवान्यादयोऽपि // 1 // प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिकाः कचित् // प्रकृतिहेरीतक्यादिर्न लिङ्गमतिवर्तते // 2 // ( अव० ) स्वार्थ प्रकृत्यर्थे भवन्ति इति स्वार्थिकाः। ते च क्वचिल्लक्ष्यानुसारेण प्रकृतेर्लिङ्गं वचनं च बाधन्ते / वाधिते च लिङ्गे बहुलं लिङ्गव्यवस्था / संदिष्टा वाक् वाचिकम् / विनय एव वैनयिकम् / उपाय एव औपयिकम् / योग्ये त्वाश्रयलिङ्गता / वृत्तिरेव वार्तिकम् / ह्रस्वा शुण्डा शमी वा शुण्डारः शमीरः / क्वचिदनुवर्तते / राज्ञो धूः राजधुरा / मृदेव मृत्तिका मृत्सा / मृत्स्ना /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy