SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ 1053 लिङ्गानुशासनम् ] हैमपञ्चपाठी. - (अव०) मुस्ता कन्दविशेषः / कुथा वर्णकम्बलः / इङ्गुदी वृक्षविशेषः / जृम्भा जृम्भणम् / दाडिमा उञ्चिलिङ्गतरुः तत्फलं तत्कणश्च / पिठरी स्थाली। मुस्तं मन्थानदण्डयोस्तु क्लीबम् / प्रतिसरा मङ्गल्यसूत्रं सेनायाः पश्चाद्भागश्च / पात्रो भाजनम् / योग्ये यज्ञभाण्डे नाट्यानुकर्तरि च क्लोबः। कन्दरी कन्दरा च दरी / अंकुशे तु पुंसि / नखरी नखरा वा नखः / वल्लूरा सौकरं शुष्कं वा मांसम् / ऊषरे नक्षत्रे वाहने च क्लोबम् / दरी श्वभ्रम् / पुरी नगरी / छत्री आतपत्रम् / कुवली वृक्षविशेषः तत्फलं च / मृणाली बिसम् / मण्डलो देशः समूहश्च बिम्बं चतुरस्रता च // 5 // नालप्रणालपटलागलशृंखलकन्दलाः / / पूलावहेलो कलशकटाहौ पष्टिरेण्विषु // 6 // ( अव० ) नाली नाला वा पद्मादिवृन्तम् / जलनिर्गमे तु बाहुलकात् पुंसिलत्वाभावे नाडः। प्रणाली जलपद्धतिः / पटली गृहोपरिभागः अक्षिरोगश्च / 'अर्गला त्रिषु कल्लोले दण्डे चान्तः कपाटयोः। शृंखलः शृंखला शृंखलमयोमयी रज्जुः। कन्दली उपरागः समूहः नवाङ्कुरः द्रुमभेदश्च / पूली पूला वा बद्धतृणसंचयः। अवहेलाऽवज्ञा / कलशो जलाद्याधारविशेषः / दन्त्योपान्त्योऽयमपि / कटाही भाण्डविशेषः / षष्टिः संख्या विशेषः / रेणुधूलिः / इषुर्बाणः // 6 // // इति स्वतस्त्रिलिङ्गाः // // अथ परलिङ्गाधिकारः // परिलिङ्गो द्वन्द्वोंऽशी डेऽर्थो वाच्यवदपत्यमिति नियताः॥ अस्यारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गे // 1 // ( अव०) द्वन्द्वः समासो द्वन्द्वस्यैव यत्परमुत्तरपदं तत्समानलिङ्गो भवति / स च समाहारादन्यो भिन्नलिङ्गवर्तिपदो वचनं प्रयोजयति / समाहारस्तु नपुंसक उक्तः। समानलिङ्गवर्तिपदोऽपि सिद्धलिङ्ग एव / इमौ मयूरीकुक्कुटौ। इमे कुक्कुटमयूर्यो / इत्यादि। अंशितत्पुरुषसमालः परलिङ्गो भवति। अर्ध पिप्पल्या अर्धपिप्पलो। अयं 'समेंऽशेऽर्ध नवा' इति समासः / अ? जरत्या अर्धजरतीयम् / 'जरत्यादिभिः' इति समासः। द्वितीयं भिक्षायाः द्वितीयभिक्षा 'द्वित्रि' इति समासः। पूर्वाहपूर्वरात्रादीनाम् ' अह्न' इति ‘रात्र' इति च पुंस्त्वम् / अॅऽर्थश्चतुर्थ्यर्थोऽर्थशब्दो यत्र प्रस्तावात् तत्पुरुषसमासे स वाच्यस्य यल्लिङ्गं तत्समानलिङ्गो भवति / ब्राह्मणायायं ब्राह्मणार्थः सूपः / एवं ब्राह्मणार्था पेया / ब्राह्मणार्थ पयः / के इति किम् / धान्येनार्थः धान्यार्थः / पुंस्त्वापवादो योगः। अपत्यमिति अपत्यादयः शब्दा नियता नियते अजहद्वर्तिनी व्यस्ते समस्ते वा लिङ्गवचने येषां ते तथा / अपत्यं दुहिता पुत्रश्च / इति शब्दस्यार्थत्वादेव तोकं रक्षः सारथिः सादी
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy