________________ लिङ्गानुशासनम् ] हैमपश्चपाठी. रोगः / कवकं भूकन्दविशेषः / किषुकं जलोत्पन्नद्रव्यविशेषः / तोकमपत्यम् / तिन्तिडीकं चक्रम् / एडूकं अन्तय॑स्तास्थि कुडयम् / छत्राकं भूकन्दविशेषः / त्रिकं पृष्ठाधोभागः / उल्मुकं अलातम् // 14 // मार्तीककदम्बके बुकं चिबुकं कुतुकमनूकचित्रके // कुहुकं मधुपर्कशीर्षके शालूकं कुलकं प्रकीर्णकम् // 15 // ( अव० ) मार्तीकं मृद्वीकासवः। अर्थप्राधान्यात् माध्वीकमपि हारहूरं च / मुरानामत्वेन स्त्रीत्वे प्राप्ते वचनम् / कदम्बकं समूहः / काभावे कदम्बम् / बुकं तृणविशेषः / चिबुकमधरस्याधः / कुतुकं कुतूहलम् / अनूकमन्वयः / चित्रकं पुण्द्रम् / कुहुकमाश्चर्यम् / मधुपर्क दधिमध्वादिः देवादीनामर्घः / शीर्षकं शिरस्त्राणम् / शालूकमुत्पलादिकन्दः / कुलकं वृत्तसमूहः। प्रकीर्णकं चामरम् // 15 // हल्लीसकपुष्के खलिङ्ग स्फिगमङ्गं प्रगचोचवीजपिञ्जम् // रिष्टं फाण्टं ललाटमिष्टव्युष्टं करोटकृपीटचीनपिष्टम् / / 16 // ( अव० ) हल्लीसकं स्त्रीणां नृत्तभेदः / पुष्पकं नेत्ररोगः। खं संवेदनम् / लिङ्गं हेतुश्चिद्रं च / अर्थप्राधान्याचिह्नमपि / स्फिगं स्फिग् / अङ्गं प्रतीकः समीपं च / अङ्गान्तत्वाद्वराङ्गं चक्राङ्गं च / प्रगं प्रभातम् / चोचमुपभुक्तफलावशेषश्छल्ल्यादि / बीजं हेतुः आधानं च / पिजं बलम् / रिष्टं क्षेमम् / फाण्टमनायासम् / ललाटं भालम् / इष्टं क्रतुकर्म / व्युष्टं प्रभातम् / करोटं मस्तकम् कांस्यभाजनं च / कृपीटमुदरम् / चीनपृष्टम् सिन्दूरम् // 16 // शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठभाण्डाण्डतुण्डशरणग्रहणेरणानि // पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं त्राणं शणं हिरणकारणकार्मणानि // 17 // ( अव०) शृङ्गाट जलोद्भवकन्दः चतुष्पथं च / मोरटमिक्षुमूलम् / पिट छर्दिः / टान्तानां तु पुंस्त्वे प्राप्तेऽस्य पाठः। अथ ठान्तौ / पृष्ठं प्राण्यङ्गम् / गोष्ठं गोकुलम् / गोष्ठप्रत्ययान्तमपि / गोगोष्ठम् / अश्वगोष्ठम् / 'पशुभ्यः स्थाने गोष्ठः' इति गोष्ठः / माण्डं भाजनं गेहं च / अण्डं वृषणः / तुण्डं मुण्डम् / अर्थप्राधान्यात् द्विजालयमपि / शरणं गृहं त्राणं च / ग्रहणमादरः / इरणभूषरम् / अर्थप्राधान्यादूरमपि / पिङ्गाणं काचभाजनं गेहं च / तीक्ष्णं विषादिः / लवणं लावण्यम् / द्रविणं पराक्रमः / अर्थप्राधान्यात् द्युम्नमपि / पुराणं पञ्चलक्षणम् / त्राणं त्रायमानाख्यो विधिविशेषः। शणं धान्यविशेषः / हिरणम् 'विराटहेमरेतःसु हिरणं स्याद्धिरण्यवत्' / कारणं हेतुः / कार्मणं संवननमपि // 17 // पर्याणणघ्राणपारायणानि श्रीपर्णोष्णे धोरणषणभूतम् // प्रादेशान्ताश्मन्तशीतं निशान्तं वृन्तं तूस्तं वार्त्तवाहित्थमुक्थम् // 18 // ( अव० ) पर्याणं पल्ययनम् ! ऋणमुत्तमर्णदेयम् / घ्राणं घ्राणा / पारायणं