________________ 1022 हैमपश्चपाठी. [हैमगुन्द्रा मुद्रा क्षुद्रा भद्रा भस्खा छत्रा यात्रा मात्रा // दंष्ट्रा फेला वेला मेला गोला दोला शाला माला // 21 // ( अव० ) गुन्द्रा मुस्ताविशेषः। अर्थप्राधान्यान्महिलापि / मुद्रा प्राण्यगुलिसंनिवेशः / क्षुद्रा वेश्या नटी कण्टकारिका च / भद्रा विष्टिः / भस्त्रा लोहधमनी / छत्रा मधुरिका कुस्तुंबरशिलन्ध्रयोश्च / यात्रा प्रयाणी देवोत्सवो वृत्तिश्च / मात्रा परिच्छदः मानमल्पं च / दंष्ट्रा दाढा। अर्थप्राधान्याद्राक्षस्यपि। फेला भोजनोज्झितम् / अर्थप्राधान्यात् पिण्डोलिः फेलिश्च / वेला काले बुधग्रहस्त्रियां सीम्नि वाचि च / अकारप्रश्लेषादवेला पूगचूर्णः। मेला मसिः। गोला बालक्रीडनकाष्ठम् / दोला प्रेङ्खा / शाला गृहम् / अर्थप्राधान्यात् किमीत्यपि / माला पङ्क्तिः / स्वार्थिके के मालिका पुष्पमाल्यम् , सरिभेदः पक्षी ग्रैवेयकं च // 21 // मेखला सिध्मला लीला रसाला सर्वला बला // कुहाला शकुला हेला शिला सुवर्चला कला // 22 // ( अव० ) मेखला काञ्चीशैलनितम्बखड्गबन्धेषु / सिध्मला मत्स्यचूर्णम् / लीला केलिः / रसाला मार्जिता जिह्वा च / सर्वला बाणभेदः / बला ओषधिविशेषः / अर्थप्राधान्यात् विनयापि / बलान्तत्वात् अतिबलामहाबले अपि / कुहाला काहला / अर्थप्राधान्याञ्चण्डकोलाहला पिच्छला पत्रकाहला च / शङ्कुला क्रीडनशकुः / हेलावहेला / शिला दृषत् स्तम्भाधारभूतं दारु च / गण्डूपद्यां तु ङ्यां शिली / सुवर्चला शाकविशेषः। कला शिल्पादिः // 22 // उपला शारिवा मूर्वा लट्टा खट्वा शिवा दशा // कशा कुशेशा मजूषा शेषा मूषेषया स्नसा // 23 // ( अव०) उपलाऽश्मरूपा मृत् शर्करा च / अत्र चोपलक्षणत्वात् माधवी मधुनः शर्करा / अथ वान्ताः पञ्च / शारिवा औषधविशेषः शालिबिशेषः / मूर्वा ज्याहेतुस्तृणविशेषः / अर्थप्राधान्यान्मोरटास्रवे अपि / कटंभरापि च / लट्वा कुसुम्भं भ्रमरश्च / खट्वा शयनम् / शिवा क्रोष्ट्री। दशावस्था वर्तिश्च / कशाऽश्वताडनं चर्मदण्डः / अर्थप्राधान्यात् सप्तलापि / कुशा बला झ्यां कुशी आयसी चेत् / ईशा हलदण्डः / मञ्जूषा पेटा / अर्थप्राधान्यात् पेटीपेटे अपि / शेषा देवनिर्माल्यम् / मूषा स्वर्णविलयनभाण्डम् / ईषा हलाद्यवयवः / स्नसा स्नायुः // 23 // वस्नसा विरसा भिस्सा नासा बाहागुहा स्वाहा // कक्षाऽऽमिक्षा रिक्षा राक्षा भङ्गयावल्यायतिस्रोटिः // 24 // ( अव० ) घनसा स्नायुः / विससा जरा / भिस्सा ओदनः / नासा स्तम्भादीनामुपरि दारु / बाहा. बाहुः / गुहा गिरिविवरम् / स्वाहाग्निभार्या /