SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 140 जैन धर्म में पर्याय की अवधारणा 14. समयमात्रमस्य निर्दिधिक्षितम् / ..... सर्वसंव्यहारलोपि इति चेत्, न, विषयमात्रप्रदर्शनात्, पूर्वनयवक्तव्यात् संव्यवहारिसिद्धिर्भवति / - तत्त्वार्थराजवार्तिकम्, प्र० अ० सूत्र-३३, पृ.९६, 98 7. ऋजु प्रगुणं सूत्रयति सूचयतीति ऋजुसूत्रः / अस्य विषयः पच्यमान पक्वः / पक्वस्तु स्यात्पच्यमानः स्यादुपरतपाक इति / पच्यमान इति वर्तमानः, पक्व इत्यतीतः / - जयधवला, गा०१३-१४, प्र०१८५, पृ०२०३-४ 8. अपूर्वास्त्रिकाल विषयानतिशय्य वर्तमानकालविषयमादत्ते यः स ऋजुसूत्रः / - धवला पु०९, ख.४, भाग-१, कतअनुयोगद्वारेनयप्ररूपणा, पृ०१७१-७२ 9. ऋजुसूत्रं क्षणध्वंसि वस्तु सत्सूत्रयेदृजु / प्राधान्येन गुणीभावाद्रव्यस्यानर्पणात्सतः / / - त.श्लोकवार्तिक, चतुर्थखण्ड, सूत्र 1/33, श्लोक-६१, पृ०२४८ 10. ऋजु प्रांजलं सूत्रयतीति ऋजुसूत्रः / आलापपद्धति, सू०१९९, पृ०१८८ 11. ये सौगतास्तु क्षणक्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते, तत्संघातघटित ऋजुसूत्र इति / - न्यायावतार, सिद्धर्षि विवृत्तिसहितं, कां-२९ परविवृत्ति, पृ०८५ 12. जो एयसमयवटी गेण्हइ दव्वे धवत्तपज्जायं। सो रिउसुत्तो सुहुमो सव्वंपि सदं जहा खणियं // - नयचक्र, गा०२१०, पृ०११३ 13. ऋजु प्रगुणं सूत्रणमृजुसूत्रः, यथा सर्व वर्तमानमात्रनैव न पूर्व नापि पश्चादिति / - न्यायविनिश्चयविवरण, 3/91, पृ०३६६ ऋजु प्राञ्जलं वर्तमानक्षणमानं सूत्रयतीत्य॒जुसूत्रः "सुखक्षणः सम्प्रत्यस्ति" इत्यादि / द्रव्यस्य सतोप्यनर्पणात्, तीतानागतक्षणयोश्च विनष्टानुत्पन्नत्वेनासम्भवात् / न चैवं लोकव्यवहारविलोपप्रसंगः नयस्यास्यैवं विषयमात्रपुरुपणात् लोकव्यवहारस्तु सकलनयसमूहसाध्य इति / प्रमेयकमलामार्तण्ड, तृतीयभाग, नयविवेचनम्, पृ०६६२ ऋजु वर्तमानक्षणस्थायि पर्यायमा प्राधान्यतः सूत्रयन्नभिप्रायः ऋजुसूत्रः / यथा-सुखविवर्त्तः सम्प्रत्यस्तीत्यादि। - प्रमाणनयतत्त्वालोक 7/28-29, पृ०१४२-१४३ शुद्धपर्यायग्राही प्रतिपक्षसापेक्ष ऋजुसूत्रः / प्रमेयरत्नमाला, षष्ठः समुद्देशः पृष्ठ 347 17. ऋजुसूत्रः पुनरिदं मन्यते-वर्तमानक्षणविवर्येव वस्तुरूपम् / नातीतमनागतं च / अतीतव्य विनष्टवाद् अनागतस्यालब्धात्मलाभत्वात् खरविषाणादिभ्यों वशिष्यमाणतया सकलशक्तिविरह-रूपत्वात् नार्थक्रियानिवर्तनक्षमत्वम् तदभावोच्च न वस्तुत्वं / "यदेवार्थक्रियाकारि तदेव परमार्थसत्" इति वचनात् / वर्तमानक्षणलिङ्गितं पुनर्वस्तुरूपं समस्तार्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकम् / तदपि च निरंशमभ्युगन्तव्यम् अंशव्याप्तेर्युक्तिरिक्तत्वात् / एकस्य अनेकस्वाभावतामन्तरेण अनेकस्यावयवव्यापनोयोगात् अनेकस्वभावता एवास्तु इति चेत् / न / विरोधव्याधाघ्रातत्वात् / तथाहि-यदि एकः स्वभावः कथमनेकः अनेकश्चेत्कथमेकः एकानेकयोः परस्परपरिहारेणावस्थानात् / तस्मात् स्वरूपनिग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथचिनिश्चयरूपतामपन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं न स्थूलता धारयत् पारमार्थिकमिति / एवमस्याभिप्रायेण यदेव स्वकीयं तदेव वस्तु न परकीयम्, अनुपयोगित्वादिति / - स्याद्वादमंजरी, पृ०२४४-२४५. 18. तत्र लूत्रनीतिः स्याद् शुद्धपर्यायसंश्रिता / नश्वरस्यैव भावस्य भावात् स्थितवियोगतः // स्याद्वादमंजरी, पृ०२४७ परउद्धृत ऋजु वर्तमानक्षणस्थायियपर्यायमात्रं प्राधान्यतः सूचयन्नभिप्रायः ऋजुसूत्रः / यथा सुखविवर्तः सम्प्रत्यस्ति / अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्म्यत इति / - जैनतर्कभाषा, नयपरिच्छेदः, पृ०६१ 15. 16. 19.
SR No.032766
Book TitleJain Dharm me Paryaya Ki Avdharna
Original Sutra AuthorN/A
AuthorSiddheshwar Bhatt, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy