SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः पादितं तदनेनोट्टङ्कितमिति / उदाहरणान्तरैः इति / यत्र वस्तुनः प्राधान्येन वर्णनीयत्वमुपोढरागेणेत्यादौ तस्मादन्यैरुदाहरणैरित्यर्थः / तेषु हि रसस्य प्राधान्येन वर्णनीयत्वम् / परिहत- इति यदि हि रसस्यैवालङ्करणत्वमभ्युपगम्येत स्यादयं दोषः / स्वात्मनि क्रियाविरोधात्तस्यानुपपत्तिरिति / न चैवमुदाहरणान्तरेषु तेषु रसेन तुल्यं वर्तत इति यो रसवदलङ्कारो रूपकादिस्तस्यैव रसं प्रत्यलङ्करणत्वं न तु स्वात्मानं प्रति रसस्येत्यर्थः / .. 5 ___कपोले पत्राली इति / अत्रापि प्रधानवृत्तेः शृङ्गारस्योभयार्थप्रतिपादकप्रियशब्दबलादारोपप्रतिपत्ते रूपकं रसवदलङ्कारः शोभातिशयमावहतीति / तत्तुल्यवृत्तान्ततया इति / चलापाङ्गामिति, कपोले पत्रालीति चेति पूर्वोक्तयोरुदाहरणयो रूपकस्य यो न्यायो वृत्तान्तापरपर्यायस्तत्तुल्यतयेत्यर्थः / तत्तत्रै रसवदलङ्कारः श्लेष उपमा चेति द्वयोरुपनिबन्धे संसृष्टिव्यप्रदेशः सङ्करव्यपदेशो वा प्रसजन्न प्रत्याख्यातुं शक्यत इत्याह- 10 न चेति / उपमादीनाम् इति / उपमारूपक लेषागां केवलस्येति उपमादिविरहितस्य रस वदलङ्कारस्य यतः प्रस्तुतरसपरिपोषो न निष्पद्यते / अत्र इति / अत्र पदार्थस्वभावमिवादिशब्दं वा विनापि रसवदलङ्कारेण हेतुना यः समन्वयसम्भवः स कविना श्लेषस्य श्लेषोपमयोश्चोपनिबन्धात् कामपि कमनीयतामधिरोपित इति वाक्यार्थः / पदार्थ-- इति / न ह्यत्र देवदत्तः कटं करोतीतिवत् शरद इन्दुप्रसादनं घटते, न च लिम्पतीव तम इत्यादि- 15 वदत्रेवशब्दादिरस्ति / प्रतीत्यन्तर- इति / प्रतीत्यन्तरं सापराधत्वादिविषयम् / अत्रापि इति / अस्मिन्नप्युदाहरणे रत्यादिवदाचरणमिति शृङ्गारादिरसतुल्यतया। तद्वद् इति शृङ्गाररसतुल्यम् / [ // 60 // ] __स्वसम्बन्धिनः इति कार्यकारणभावलक्षणेन सम्बन्धेन / गृहकार्य- इति रिरंसा- नवच्छिन्नत्वे हेतुरयम् / रोचमान- इति रोचमानोऽभिलष्यमाणः / पूर्वत्वे इति 20 पूर्व कथितं चतुर्थीविधाने 'चतुर्थी सम्प्रदान' इति यत् सम्प्रदानं तत् पूर्वशब्देनाऽभिधीयते / ततश्च पूर्वत्वे सम्प्रदानत्वे इत्यर्थः / तादर्थ्य- इति तादर्थ्यविधिनैव तादर्थ्य इति ह्यपसङ्ख्यानम् / सा च स्त्रीणामिति भवतीति शेषः रत्यादिभावानामिति यानि सूचनानीति सम्बन्धः / अत एव इति / यतोऽनुमितिपुरस्सरं साधारण्येन प्रतिपद्यन्ते // 61 // - इयम् इति / द्विःसन्धानाऽकरणलक्षणाऽन्यायवृत्तिः क्षत्रधर्मविलङ्घनादित्यर्थः / 25 क्षत्रधर्ममेव दर्शयितुमाह- शत्रौ इति / आततायी इति / अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः / / क्षेत्रदारहरश्चैव षडेते आततायिनः // 62 // इति 1. ख पुस्तके एव // 2. रूपकलक्ष [ णस्य ] ख. एव / .
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy