________________ कल्पलताविवेक 318 - तत्संसर्गे इति / रसवदाद्यलङ्कारसंसर्गे / संसर्गः इति संसृष्टिरित्यर्थः / एषाम् इति रसवदादीनाम् / नास्ति विषयः इति वाक्यार्थीभावेन रसवदादीनां प्रायशः सर्वत्र सम्भवात् / रसभाव- इति शास्त्राविरुद्धा रसभावाः प्रसिद्धा एव तदाभासास्तु व्याख्यास्यन्ते अनौचित्य इति / वृत्तेः इति / वृत्तिः स्वाश्रयसम्बन्धात्मिका / आश्रयश्च विभावादिः। 5 रसान्तर- इति रसान्तरस्योत्तरस्याश्चित्तवृत्तेरित्यर्थः / अनुभावानाम् इति शृङ्गाररस सम्बन्धिनाम् / मानमस्याः इति गुणप्रधानभावाभ्युपगमपक्षे / भूषणः इति उत्प्रेक्षादिभिरलङ्करणैः [ // 63 // ] / एवं हि इति / अनेन स्नेहस्य सद्भावेऽसद्भावे वा य आशीरलङ्कारः केषाञ्चिन्मतः स उभयरूपोऽप्यप्राप्तप्राप्तीच्छालक्षगः प्राप्तकालताभ्यनुज्ञास्वभावो वा भवतीति वक्तुमुपक्रमते10 आशास्ताम् इति / आशासनमप्राप्तप्राप्तीच्छारूपं मा वेति / अपि तु प्राप्तकालतया अभ्यनुजानात्वित्यर्थः / // 64 // ] . श्लेषे इति / श्लेषे हि द्वितीयोऽप्यर्थोऽभिधीयते / न त्ववगम्यते / सौक्षम्याद् इति / " इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मम् " इति लक्षितात् सूक्ष्मालङ्कारादित्यर्थः / भूमि कान्तरम् इति / तत्र हीङ्गिताकाराभ्यां कार्यरूपाभ्यां भावलक्षणोऽर्थः कारणभूतो 15 लक्ष्यतेऽत्र त्वनुकरणेनाऽनुकार्यरूपः स इति भूमिकान्तरमेतत् / अत्र वक्तुम् इति इह वक्तमक्षमतायां सत्यामिङ्गिताकारावपि यतः प्रतीयेते प्रतीयमानत्वाच्च तावक्षमौ भावमवगमयितुमतस्तदवगतेरिदं भूमिकान्तरं भवतीत्यर्थः / अनुकार्य- इति कार्यकारणभूमिकातोऽनुकार्याऽनुकरणभूमिकाऽन्येवेत्यर्थः [ // 65 रू॥]। . प्रतिपिपादयिषितं यत्र इति प्रतिपादयितुमिष्टं सत् यत्र प्रतिपादयितुमुपमेयोत्कर्षकरं 20 विशेष कुर्वीत तत्पूर्वविलक्षणं साम्यमित्येवं शेषकारिकार्थो योजनीयः / उपमा इति उप मातो रूपकाच्च विलक्षणत्वे / योगायोगादि इति आदिग्रहणेन क्रियाजात्युभयादि योगायोगा गृह्यन्ते / पूर्वादि इति आदिग्रहणेनोत्तरा दृष्टान्तोक्तिः पूर्वोत्तरोभयरूपा च सामान्यतो विशेषतश्च भवतीति लभ्यते / तेन क्रियादियोगकृतसाम्याश्चतस्रः क्रियाद्ययोगकृत साम्याश्च चतस्र इत्यष्टदृष्टान्तोक्तयः / मलिणया इति / स्खलितसमुद्भवा राहुसम्पर्कजा 25 च / विसम- इति / वैषम्यं विधिवशोद्भवसामग्र्यभावादिजनितं दृढश्लिष्टदृषत्कूटप्रभवं च / स्फुरितसूर्य- इति / सूरशब्दस्य द्वितीयोऽयमर्थः / जं जमिति / विदमवेढमिति सम्बन्धः / ताणेति / प्लबगानां साम्योत्कर्ष- इति / उपमानोपमेययोः साम्येनोपमानस्योत्कर्षेणापकर्षेण किञ्चिदुत्कर्षेण च प्रकृताश्चतस्र उपमानोपमेययोः 1. प्रकारान्तरम् / ख. एव // 2. साम्यम् ख. पुस्तके एव / /